This page has not been fully proofread.

२ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२६९
 
योगः स्यात् । अपि तु दीर्घकालं लोकस्य विदितः । अन्यथा लोकस्तं
दृष्ट्वा सहसा विकल्पयति । तस्मिन्निति कर्मण्यनुष्ठीयमानेऽसमाप्त एवान्येषां
कर्मणामनुसंधानं कर्तव्यं मा भूद्दर्शनविच्छेद इति । येनेति कर्मणां पुष्क-
केन । इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ॥
 
कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जी-
तेति । प्रायेण तत्र सूक्ष्मा अभियोगाः । कन्यानामसंप्रयुक्तत्वात् ।
इतरासु तानेव स्फुटनुपदध्यात् । संप्रयुक्तत्वात् । संदर्शिताकारायां
निर्मिनसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत । तेत्र
महार्हगन्धमुत्तरीयं कुसुमं चात्मीयं स्यादङ्गुलीयकं च । तद्धस्ताद्गृही-
तताम्बूलया गोष्टीगमनोद्यतस्य केशहस्तपुष्पयाचनम् । तत्र महाई-
गन्धं स्पृहणीयं खनखदशनपदचिह्नितं साकारं दद्यात् । अधिकैर-
घिकैयाभियोगैः साध्वसविच्छेदनम् ॥
 
●●●
 
• तेजिताकारायाम् । निर्मिन्नसद्भावायामिति प्रकटितसंभृतभा-
वायां सत्याम् । समुपभोगव्यतिकरे तदीयानीति नायिकावस्तूनि स्वयमुपयु-
क्यात्खानि च तामुपभोजयेत् । तत्रेति परिवर्तमाने । महार्हगन्धमत्यन्तसु-
रभि । उत्तरीयं कुसुमं चात्मीयं स्यात्खीकुर्यादित्यर्थः । अड्ङ्गुलीयकं च
महाह्रै स्यात् । तद्धस्तान्नायकहस्तायदि तया ताम्बूलं गृहीतम् । गोष्ठीगम-
नोद्यतस्येति कर्तरि षष्ठी । केशहस्तः केशकलापः । तत्रत्यपुष्पयाचनम् ।
सिद्धकरमेतदिति । खयं तु ददन्नायको यन्महार्हगन्धं स्पृहणीयं लोकस्य
तदन्यहस्तेन यदा दद्यात्तदा खनखदशनपदचिह्नितम् । यदा स्वहस्तेन
तदा साकारम् । क्रियाविशेषणमेतत् । एवं प्रकारद्वयेऽपि भावः सूचितो
भवति । अधिकैरधिकैः पूर्वपूर्वेभ्यः साध्वसविच्छेदनम् । प्रायेण परयोषि-
त्परपुरुषेषु ससाध्वसा भवति ।
 
१. 'तद्रव्याणि गोष्ठीगमनोपभोगव्यतिकरेष्वानीयोपयुजीत'. २. 'तत्र महाईगन्ध-
मात्मीयं स्यात्तद्धस्ताच ताम्बूलग्रहणम् । गोष्ठीगमनोद्यतस्य तत्केशहस्त'. ३ 'सूचितोऽयं'.