This page has not been fully proofread.

२ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
दयः ॥ यस्यायतनमुद्दामरूपयौवनविभ्रमाः 1 ललनाश्चाटुदाक्षिण्याश्चा-
कृष्टजनमानसाः ॥' इति । तत्र य आयतनसंप्रयोगः स च द्विविधः,
बाह्य आभ्यन्तरश्च । तत्र यो रहसि स आभ्यन्तरो रताख्यः । स वि-
शेषकामस्य निमित्तम् । बाह्यः समागमलक्षणो रतस्य । यश्च बुद्धीन्द्रि-
याणां यथाखमः संप्रयोगः सोऽङ्गसंप्रयोग इति । इन्द्रियार्थसंनिकर्प-
लक्षणः । स च सामान्यकामस्य निमित्तम् । अनयोश्च कामयोर्यथास्वं
पूर्वोक्तमेवेच्छाकारणम् । तत्पूर्वकत्वात् । तदभावेऽभावात् । तत्राद्यः सं-
प्रयोगः समागमलक्षणः स स्त्रीपुंसयोरन्यतरानिच्छया रक्षणाल्लज्जया भ-
याद्वा परतन्त्रायां न घटत इत्यत्रायमुपायमपेक्षते । रेताख्यश्च पाश्चात्य
चतुःषष्टिप्रयोगानभिज्ञायां कथं स्यादिति तन्त्रमुपायम् । द्वितीयोऽपि
संप्रयोगो नित्यनैमित्तिकनागरिकसंवृत्तं बिना न भवतीत्युपायापेक्षा ।
 
*
 
a
 

 

 
·
 
सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥
उपायपरिज्ञानं च कामसूत्रात् । तेनोपदिश्यमानत्वात् । वात्स्यायन
 

 
द्र 'इति खगोत्रनिमित्ता समाख्या । मल्लनाग इति च संस्कारिकी ।
म गवादिषु कथमिति चेत्तदाह -
 

 
तिर्यग्योनिषु पुनरैनादृतत्वात्स्त्रीजातेच, ऋतौ यावदर्य प्रवृत्ते-
। बुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्ययः ॥
 
पुनःशब्दो विशेषणार्थः । अनावृतत्वादिति रक्षणाद्यावरणाभावात् ।
स्त्रीजातिः स्वतन्त्रा । किं तत्रोपायेनेत्यनुपायः प्रत्यय इति संवन्धः । प्र-
त्ययशव्देनोमयरूपोऽपि संप्रयोग उक्तः । तस्य कामोत्पत्तौ निमित्त-
त्वात् । तत्रावरणाभावाचार्योक्तोपायशून्यः समागम इत्यर्थः । ऋतौ
यावदर्थमिति । ऋतुकाल एव ते तिर्यञ्चः संप्रयुज्यन्ते । मनुष्यास्तु प्रजा-
र्थमृतौ, स्त्रीरमणार्थं चानृतावपीत्यसमानम् । तथा चोक्तम् –'ऋतावुपेया-
त्सर्वत्र वा प्रतिषिद्धवर्जम्' इति । तत्रापि यावदर्थं यावदेव तृतिलक्षणो-
ऽर्थो निप्पद्यते तावदेव संप्रयुज्यन्ते । न तु द्वितीयं संप्रयोगिणमपेक्षन्ते,
 
१. 'रतारम्भव' पा०० २. 'तन्त्रमुपायम्' इति पुस्तकान्तरे नास्ति. ३. 'अनारत-
त्वाच्च' पा०. ४. 'आवापोतोपायशून्यः'; 'आचार्यो को य उपायस्तदन्यः' प