This page has not been fully proofread.

२६८
 
कामसूत्रम् ।
 
२४ आदितोऽध्यायः]
 
आभ्यन्तरमधिकृत्याह-
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् । त
त्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात् । सौगन्धिकं पूगफलानि
च । तामात्मनो दारैः सह विस्रम्भगोष्ठयां विविक्तासने च योज-
येत् नित्यदर्शनार्थं विश्वासनार्थं च । सुवर्णकारमणिकारवैकटिक-
नीलीकुसुम्भरंजकादिषु च कामार्थिन्यां सहात्मनो वश्यैश्चैषां त-
त्संपादने स्वयं मयतेत । तदनुष्ठाननिरैतस्य लोकविदितो दीर्घ-
कालं संदर्शनयोगः । तसिंञ्चान्येषामपि कर्मणामनुसंधानम् । येन
कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागमसु-
पायं विज्ञानं चात्मायत्तं दर्शयेत् । पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्य-
गुणपरीक्षासु च तया तत्परिजनेन च सह विवादः । तत्र निर्दि-
ष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् । तया तु विवद-
मानोऽत्यन्ताद्भुतमिति ब्रूयादिति परिचयकारणानि ॥
 
प्रसृते तु सर्वथोत्पन्ने परिचये । न्यासाः संस्थाप्याश्चिरकालप्रायाः ।
निक्षेपं यदल्पकालग्राह्यम् । प्रतिदिनं न्यासः प्रतिदिनं निक्षेपकम् । तदेक-
देशं स्तोकस्तोक्रेन गृह्णीयात् । तदेव यथाक्रमं दर्शयति—सौगन्धिकं सुग-
न्धिद्रव्याणां समूहः । तद्वारेण प्रतिदिनं न्यासं निक्षेपं च यदल्पकालग्राह्यं प्र-
तिक्षणं च दृश्यते । विसम्भगोष्ठयां विविकासने चेति तामुपनिमन्त्र्यास्माभिः
प्रच्छेन्न समुपविश्य पानगोष्ठी कर्तव्येत्यभिधाय स्वदारैः सह तत्र योजयेत् ।
नित्यदर्शनार्थं विश्वासनार्थं चेति प्रतिक्षणं दर्शनार्थं स्वयं प्रयतेतेति वक्ष्य-
माणेन संबन्धः । वैकटिको रत्नानां परिशोधकः। नीलीरञ्जककुसुम्भरञ्जकौ
प्रतीतौ । आदिग्रव्दात्त्वष्टकांस्यकारादयः । तेषां कामार्थिन्यां सत्यामात्मव-
श्यैर्विधेयैः सुवर्णकारादिभिस्तत्संपादने सुवर्णादिकर्मसंपादने तदनुष्ठानं
निरस्य सुवर्णादिकर्म स्वयमधिष्ठाय कारयेत् । संदर्शनयोगो न प्रच्छन्न-
१. 'यत्तत्सौगन्धिक'. २. 'रजकादिपु'. ३. 'कामार्थिन्यामात्मनथ वश्येरेपां.
४. 'संपादने च योजयेत्स्वयं प्रयतेत'. ५. 'रतस्य च लोके'. ६. 'अन्यत्तद्भक्तमिति
कुर्यात्'. ७. 'निरस्येति'.