This page has not been fully proofread.

कामसूत्रम् ।
 
२४ आदितोऽध्यायः]
 
अभियोक्ष्यमाणोऽभियोगं करिष्यन् । परिचयं संदर्शनं दूतीपूर्वकम् ।
संदर्शनं च द्विविधमित्याह-
तस्याः स्वाभाविकं दर्शनं मायनिकं च । स्वाभाविकमात्मनो
भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्य भवनसंनिकर्पे विवा-
हयज्ञोत्सवव्यसनोद्यानर्गमनादिषु ॥
 
२६६
 
भवनसंनिकर्ष इति गृहसमीपे क्वचिदागताया दर्शनं स्वाभाविकं न प्र-
यत्नकृतम् । मित्रादीनां यद्गृहं तत्समीपे यद्दर्शनं विवाहादिषु च । तत्माय-
लिकम् । प्रयत्नसाध्यत्वात् ।
 
तत्र च द्विविधे संदर्शने परिचयकारणं द्विविधं बाह्यमाभ्यन्तरं च । तत्र
पूर्वमधिकृत्याह-
दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरण-
माभरणप्रहाद नमघरौष्ठविमर्दनं तास्ताच लीला वयस्यैः सह मेक्ष-
माणायास्तत्संबद्धाः परापदेशिन्यश्च कथास्त्यागोपभोगमकाशनं
सख्युरुत्सङ्गनिपण्णस्य साङ्गभङ्गं जृम्भणमेकअर्पणं मन्दवाक्यता
तद्वाक्यश्रवणं तामुद्दिश्य वालेनान्यजनेन वा सहान्योपदिष्टा व्यर्था
कैथा तस्यां स्वयं मनोरथावेदनमन्यापदेशेन तामेवोद्दिश्य वालचु-
म्वनमालिङ्गनं च जिह्वया चास्य ताम्बूलदानं प्रदेशिन्या हनुदेश-
घट्टनं तत्तद्यथायोगं यथावकाशं च प्रयोक्तव्यम् । तस्यायाङ्कगतस्य
वालस्य लालनं वालक्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृ-
टत्वात्कथायोजनं तत्संभाषणक्षमेण जनेन च मीतिमासाद्य कार्य
तदनुवन्धं च गमनागमनस्य योजनं संश्रये चास्यास्तामपश्यतो
नाम कामसूत्रसंकथा ॥
 
साकारमिति भावसूचकेन मुखनयनगतेनाकारेण सह प्रकृते प्रेक्षणं क-
१. 'प्राथमिक'. २. 'गमनाचारेपु'. ३. 'वयस्यैः सार्धं लीला'. ४. 'क्षेपः'. ५. 'कथा: '.
६. 'उद्दिदय भूमिविलेखनं चालस्य'. ७. 'तच तश्च यथावकाश'. ८. 'लालनं क्रीडन-
काना'. ९. 'ग्रहणं वा'. १०. 'च जनेन सह'. ११. 'आसज्य कार्ययोगः .