This page has not been fully proofread.

i
 
1
 
1
 
1
 
२ अध्यायः ]
 
५ पारदारिकमधिकरणम् ।
द्वितीयोऽध्यायः ।
 
क्रियया परिबृंहितेत्युक्तं तां क्रियां दर्शयितुमाह -
 
२६९
 
यथाकन्या स्वयमभियोगसाध्या न तथा दूत्या । परस्त्रियस्तु
सूक्ष्मभावा दूतीसाध्या न तथात्मनेत्याचार्याः ॥
 
1
 
द्वे नायिके कन्या परयोषिञ्च । अभियोगो द्विविध आत्मना दूत्या च ।
अत्राचार्याणां मतं यथाकन्येति । कन्यानामसंप्रयुक्तत्वात्तासु प्रायेण यु-
क्त्याभियोगाः । तांश्च नायक एव प्रयोक्तुं शक्नोति । न दूती । एवं च
ताखेकपुरुषामियोगा उक्ताः । सूक्ष्ममावा इति प्रवृत्तसंयोगात्परपुरुषः
संभवति (?) । किमु तस्मिन्भावप्रदर्शनं प्रकाशनं दूत्यामुभयं संभवति । त-
माहूत्यैव साध्या इति ।
 
सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुरुपपादत्वात्तस्य
दूतीप्रयोग इति वात्स्यायनः ॥
 
सर्वत्रेति कन्यास परस्त्रीषु चेति । शक्तिविषय इति यत्र खयमभियोक्तुं
शक्नोति । उपपन्नतरकं दूतीसाधनात् । तस्येति स्वयमभियोगस्य । दुरुप-
पादकत्वादिति यत्र दुःखेनोपपाद्यते तत्र दूतीप्रयोगः ।
 
तत्र प्रायोवादेन दर्शयन्नाह -
 
प्रथमसाहसा अनियन्त्रणसंभाषाश्च स्वयं प्रतार्याः । तद्विपरी-
ताथ दूत्येति प्रायोवादः ॥
 
प्रथमं साहसं चारित्रखण्डनं यासां तासु नायक एव समर्थो न दूती ।
अनियन्त्रणमनिषिद्धं संभाषणं यासां नायकेन सह यास्वपि किं दूत्येति ।
स्वयं प्रतार्या इति स्वयमुपपन्नतरकत्वं प्रदर्शयति । दुरुपपादत्वमाह तद्वि-
परीता इति बहुशः खण्डितचारित्रा नियन्त्रणसंभाषिण्यः ।
 
ननु प्रथमसाहसायां गमनं प्रतिषिद्धम् । विषयस्याशुद्धत्वात् । शरीरो-
पघातत्राणार्थमप्ययुक्तम् । स्वयमभियोगस्य (ख) न परिचयं विनेति परिच-
यकारणान्युच्यन्ते । यदाह-
स्वयम॑भियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ॥
 
१. 'ताथ नायकेन प्रयोक्तुं शक्यन्ते न दूत्या. २. 'अभियुज्यमान.'..
का० ३४