This page has not been fully proofread.

२६४
 
कामसूत्रम् ।
 
२३ आदितोऽध्यायः ]
 
खण्डितशीला । ग्राम्यभार्या नागरकस्यायत्त साध्या स्यात् । दुर्गन्धिः शरीरे
यस्य दुष्टो गन्धः स उद्वेगकरः । रोगी यो दीर्घरोगयुक्तः । वृद्धो व्यवाया-
क्षमः । एषां भार्या व्यभिचारिण्यः ।
प्रकरणत्रयार्थमुपसंहरन्नाह -
 
श्लोकावत्र भवतः -
 
-
 
इच्छा स्वभावतो जाता क्रियया परिवृंहिता
बुद्धया संशोषितोद्वेगा स्थिरा स्वादनपायिनी ॥
सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम् ।
व्यावृत्तिकारणोच्छेदी नरो योपित्सु सिध्यति ॥
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे स्त्रीपुरु-
पशीलावस्थापनं व्यावर्तनकारणानि स्त्रीपु सिद्धाः पुरुषा
अयत्नसाध्या योषितः प्रथमोऽध्यायः ।
 
इच्छेति स्वभावतो यं कंचिदुज्ज्वलं दृष्ट्वा कामयत इति । क्रिययेति
परिचयामियोगलक्षणया परिबृंहिता वर्धिता । बुद्ध्येति प्रज्ञया संशोधितो-
द्वेगेति संप्रयोगोपायमपश्यन्ती उद्वेगयुक्तापि स्यात् । तदुपायदर्शनेनाप-
नीतोद्वेगा । सा चैवंविधा स्थिरा स्यात् । अनपायिनीत्वात् । सिद्धतामिति
ज्ञात्वा किमहमस्याः सिद्ध इति । लिङ्गानीच्छासूचकानि । इङ्गिताकारा-
नित्यर्थः । उन्नीयेति ज्ञात्वा । व्यावृत्तिकारणोच्छेदी रागवर्धनादिमिः ।
योषित्सु सिद्ध्यत्यभियुञ्जानः फलं लभत इत्यर्थः । इत्ययत्नसाध्या योषितो
द्वाचत्वारिंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाण्यायां पारदा-
रिके पश्चमेऽधिकरणे स्त्रीपुरुपशीलावस्थापनं व्यावर्तनकारणानि
स्त्रीपु सिद्धाः पुरुपा अयत्नसाध्या योपितः प्रथमोऽध्यायः ॥
 
१. 'च संधितोद्वेगा'.