This page has not been fully proofread.

१ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
कापरिग्रहो नववरकः प्रेक्षोद्यानत्यागशीलो वृष इति सिद्धप्रतापः
साहसिकः शूरो विद्यारूपगुणोपभोगैः पत्युरतिशयिता महाईवेषो-
पचारथेति ॥
 
अमी वक्ष्यमाणाः । प्रायेण बाहुल्येन । कामसूत्रज्ञः कथाख्यानकुशल
इति द्वावपि कामशीलत्वात्स्त्रीषु सिद्ध्यतः । बाल्यात्प्रभृतीति योऽन्यसाग-
हादागतो बाल्यात्प्रभृति स प्रवृद्धस्खेहत्वादस्याः सिद्धः । प्रवृद्धयौवन
इति स हि वयःसामर्थ्यात्स्त्रीषु सिद्धः । क्रीडनकर्मादिनेति क्रीडनव्यापा-
रेण । आदिशब्दात्पत्रच्छेद्यादिना यस्या आगतविश्वासः स तस्याः सिद्धः ।
प्रेषणस्य कर्ता यस्या वचनकरस्तस्याः सिद्धः । उचितसंभाषणोऽनियन्त्र-
णात्सिद्धः । प्रियस्य कर्ता यस्या य इष्टं संपादयति स तस्याः सिद्धः ।
अन्यस्य भूतपूर्वो दूतः पूर्वसंस्तुतत्वादस्याः सिद्ध इति योज्यम् । उत्तम-
येत्यधिकया यः प्रार्थितः स पूर्वायाः सिद्ध्यति । सख्या प्रच्छन्नं संसृष्टः
मच्छन्नं कामितस्तत्परिचयान्नायिकायाः (सिद्धः) । सुभगाभिख्यातः सौभाग्य-
ख्यातिमहापयन्स्त्रीषु सिद्धः । सहसंवृद्धो यया एकसिप्रिये (?) स तस्याः
सिद्धः । प्रातिवेश्यः कामशीलः सोऽस्या वचनमात्रसाध्यः । तथाभूतश्च
परिचारकः कामशीलः सोऽस्याः सिद्धः । धात्रेयिकापरिग्रहो धात्रेयिकया
पतित्वेन यो गृहीतस्तत्परिचयादस्याः सिद्धः । नववरक इति यस्मिन्गृहे
नवो जामाता तत्रत्यासु स्त्रीषु सिद्धः । प्रेक्षोद्यानत्यागशील इति नटादि-
प्रेक्षणशील उद्यानक्रीडाशीलस्त्यागशीलस्त्रयोऽपि कामशीलत्वात्स्त्रीपु
सिद्धाः । वृष इति सिद्धप्रतापो व्यवायीति यो लब्धप्रतापः स स्त्रीपु सिद्ध
एवास्ति । साहसिक इति नावमृष्य सहसा यः प्रवर्तते स स्त्रीणां वचनमा •
त्रमपेक्षते । शूर इत्यकुतोभयत्वात्परस्त्रियमपेक्षमाण एव तिष्ठति । पत्युर-
तिशयितेति यस्या भर्तारं विद्यादिभिरतिशेते स तस्याः सिद्धः । महा
वेषोपचारौ यस्य स कामशीलत्वात्स्त्रीषु सिद्धः । इति स्त्रीपु सिद्धाः पुरुषा
एकचत्वारिंशं प्रकरणम् ॥
 
१. 'प्रेक्षणकोद्यान'. २. 'वेषाचार'. ३. 'आगत्य'. ४. 'संभावयति'.