This page has not been fully proofread.

२६०
 
कामसूत्रम् ।
 
२३ आदितोऽध्यायः]
 
उत्पन्नानि चात्मनि लियां वा परिच्छिन्द्यादुपायैरित्याह-
आर्यसयुक्तानि रागवर्धनात् । अशक्तिजान्युपायमदर्शनात् ।
बहुमानकृतान्यतिपरिचयात् । परिभवकृतान्यतिशौण्डीर्याद्वैचक्ष-
ण्याच्च । तत्परिभवजानि मणसा । भययुक्तान्याश्वासनादिति ॥
 
आर्यत्वयुक्तानीति पत्यावनुरागोऽपत्यापेक्षातिक्रान्तवयस्त्वं दुःखाभि-
भवो धर्मापेक्षा चेत्येतानि स्त्रीगतान्यार्यत्वयुक्तानि रागवर्धनात्परिच्छिन्द्या-
यथा तस्या रागो वर्धेत तथा प्रतिविधेयम् । विरहानुपलम्भोऽस्य मा भूद-
निष्टमात्मनि दोपैदर्शनादप्रतक्यों नागरकः कलासु विचक्षणः सखित्वे-
नोपचरितः पत्या प्रयुक्तः परीक्षत इत्यात्मगतानि बहुमानकृतान्यतिपरिच-
यात् । कृतेऽतिपरिचये तस्योपरि मानो विगलति । शुष्काभियोगी अदे-
शकालज्ञः परिभवस्थानमाकारितो नावबुध्यते पलित इत्यात्मगतानि ना-
यिकापरिभवकृतान्यतिशौण्डीर्यादिति पॅरिभवप्रक्षालनात् । वैचक्षण्याच्चेति
शास्त्रकलाप्रकाशनात् । अवज्ञयोपमन्त्रयते असंवृताकारो मित्रेषु निसृ-
टमाव इत्यात्मगतानि । तत्परिभवजानि नायिकापरिभवजानि । प्रणत्येति
तत्रैकान्तप्रसृतया । तेजस्वी चण्डवेगः समर्थो भवति शशो मन्दवेगो वि-
दिता सती खजनवहिष्कृता भविष्यामीत्यात्मगतानि भययुक्तान्याश्वासना-
दिति यथा न भयं तथा प्रतिविधानेनेति । इति व्यावर्तनकारणानि च-
त्वारिंशं प्रकरणम् ॥
 
--
 
एवं शीलमवधार्यात्मनः सिद्धतां पश्येत् । अन्यथाभियोगासंभवादिति
स्त्रीपु सिद्धाः पुरुषा उच्यन्ते-
पुरुषास्तमी प्रायेण सिद्धाः – कामसूत्रज्ञः कथाख्यानकुशलो
वाल्यात्मभृति संसृष्टः वृद्धयौवनः क्रीडनकर्मादिनागतविश्वासः
प्रेपणस्य कर्तोचितसंभापणः मियस्य कर्तान्यस भूतपूर्वो दूतो मर्मज्ञ
उत्तमया प्रार्थितः मख्या मच्छन्नं संसृष्टः सुभगाभिख्यातः सह
संवृद्ध : मानिवेश्यः कामशीलस्तथाभूतश्च परिचारको धात्रेयि-
१. 'परिच्छिन्दादुपायैः परिच्छिन्दुपाय'. २. 'उपाय'. ३. 'परिभाग'; 'परिभोग'.
४. 'तेज' ५० 'श्रीयु पुरुषाः' ६. 'तस्या ममंग..