2023-02-19 13:59:27 by ambuda-bot
This page has not been fully proofread.
१ अध्यायः]
५ पारदारिकमधिकरणम् ।
२५९
रेणाभियुक्त इति भयात्क्रोधो व्यावृत्तिकारणम् । अप्रतय दुःखग्राहचित्त
इति तस्मिन्ब (नब ) हुमानात्संकल्पवर्जनम् । मनोन संकल्प्यत इत्यर्थः ।
गमिष्यतीति न चिरकालमनेन संप्रयोग इत्यनायतिर्भविष्यत्कालाभावः का-
रणम् । अन्यत्र प्रसक्तमतिरिति वानायतिस्तात्कालिकत्वात् । असंवृता-
कार आकारसंवरणमकुवैल्लोके मद्गीतिकां करोतीति परिभवादुद्वेगः ।
मित्रेषु निसृष्टभावस्ते (तानि) च यदाहुस्तत्करोतीति च तेष्वपेक्षा मयि
त्ववज्ञा । शुष्काभियोगी निष्कारणमभियुद्ध इत्याशङ्का । तेजस्वीति सा-
ध्वसं प्रमादावस्खलितेऽनर्थ करिष्यतीति । मृग्या इति मन्दवेगायाः ।
मृग्याश्चण्डवेगः समर्थो वेत्यश्व इति भयम् । नागरक इति यो नागरकवृ-
तावधिकृतः । कलासु च विचक्षणो नागरकादन्यः । ब्रीडा ग्राम्याया अ-
विदग्धायाश्च । सखित्वेनेति मित्रत्वेन मयायमुपचरितः कथं पुनरेवं कु-
र्यामिति च ब्रीडा । अदेशकालज्ञ इति चासूया देशकालयोर्नाभियुङ्क
इति । परिमवस्थानं नीचत्वात् ततश्च सखीजनोऽन्यो वा मां परिभविष्यती -
त्यसंयतेति तस्मिन्नबहुमानकारणम् । अभिप्रायं दर्शितो नावबुध्यत इत्य-
वज्ञा न विदग्ध इति । हस्तिन्या इति चण्डवेगायाः । हस्तिन्याः शशो
मन्दवेग इति चावज्ञा । मत्तोऽस्येति मन्निमित्तन मामधिगच्छतो मा भूद-
निष्टं शरीरतोऽर्थतो वेत्यनुकम्पा । आत्मनि दोषदर्शनादिति शरीरे रोगा-
दिकं वैगन्ध्यादिकं पश्यन्त्या निर्वेदः । विदिता स्वजनस्य विप्रतिपन्नेति
तस्माद्वहिष्कृता भविष्यामीति भयम् । पलितो वृद्ध इत्यनादरः । पत्या प्र
युक्त इति किं पतिव्रता नेति ज्ञातुं नियुक्तः परीक्षत इति विमर्शः । ध-
र्मापेक्षा च कारणम् । अस्त्येव हि काचित्स्त्री या धर्माधर्मावपेक्षते ।
प्रतिविधानमाह --
तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ॥
तेष्विति व्यावर्तनकारणेषु यदात्मनि कारणं लक्षयेन्ममेदं भवितेति
तदादित एव परिच्छिन्द्यात्परित्यजेद्यथा न भवति ।
१. 'विसृष्टि' २. 'स्थानाना च सत्त्वात्. '