This page has not been fully proofread.

कामसूत्रम् । २ आदितोऽध्यायः]
 
- १६
 
ईदानीं विप्रतिपत्तिपूर्विकां संप्रतिपत्ति दर्शयन्नाह -
धर्मस्यालौकिकत्वात्तदभिधायकं
खादैर्यसिद्धेः । उपायप्रतिपत्तिः शास्त्रात् ॥
 
धर्मस्येत्यादि । कामसूत्र एव तद्विप्रतिपत्तिं दर्शयति—अलौकिक-
त्वादिति । यथोक्तं प्राक् । अभिधायकं ज्ञापकम् । अर्थसिद्धेरिति । अ-
र्जनवर्धनाख्या चार्थसिद्धिः । अन्यथोपायं विना प्रवर्तमानस्यानर्थोऽपि
स्यात् । तत्संशयश्च ।
 

 
तत्र धर्मार्थमर्थार्थ च शास्त्रं युक्तम् । कामार्थं त्वयुक्तमित्याह-
तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शा-
स्त्रेण कृत्यमस्तीत्याचार्याः ॥
 
शास्त्रं युक्तम् । उपायपूर्वक
 
तिर्यग्योनिप्वपीति । गवादिष्वपि तमोवहुलेषु शास्त्रोपदेशं विना
कामः प्रवर्तमानो दृश्यते, किं पुनर्मनुष्येषु रनोवहुलेषु न प्रवर्तते । तथा
चोक्तम् – 'विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः । स्वकान्ता-
रमणोपाये को गुरुर्मृगपक्षिणाम् ॥" इति । नित्यत्वाच्चेति । आत्मनि द्र-
व्यपदार्थे सदैवेच्छाद्वेषादयो गुणाः स्थिताः । ततश्च नित्यः कामः । तथा
चोक्तम् – 'मुमुक्षवोऽपि सिद्धयन्ति विरागाद्रागपूर्वकात् । विषयेच्छानुब-
न्धिन्यो निसर्गात्प्राणिनां घियः ॥ तस्मात्प्रवर्तमानेन शास्त्रेण कार्य त-
निवर्तनं तु युक्तम् । आचार्या धर्मार्थमोक्षवादिनः ।
 
अत्र संप्रतिपत्तिमाह -
संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥
 
संप्रयोगपराधीनत्वादिति । विशेषः सामान्यो वा कामः संप्रयोगपरा-
धीनः । संप्रयोगश्च द्विविधः, आयतनसंप्रयोगोऽङ्गसंप्रयोगश्च । तत्राय-
तनं कामस्य रूयधिष्ठानम् । अङ्गानि च माल्यादीनि । तथा चोक्तम्-
'सुखं कामस्तदङ्गानि भूषणालेपनखजः । तथोपवनहर्म्याग्रवल्लकीमदिरा-
१. 'इदानीम्' इति पुस्तकान्तरे नास्ति. २. 'शास्त्रमुक्तम्' पा०. ३. 'चार्थसिद्धेः'
'च शास्त्रादेव' पा०. ५. कार्यमस्तीति कार्यम्. ६. 'संप्रयोगः पराधीनत्वादु-
पायम' पा०.
 
1