This page has not been fully proofread.

२५८
 
कामसूत्रम् ।
 
२३ आदितोऽध्यायः ]
 
पदर्शित्वं शीलम् । तथावुद्धिश्चेति धर्मस्थित्यपेक्षी आर्यसमयापेक्षी चा-
भियुज्यमानोऽपि स्त्रिया । न सिद्ध्यति न प्रवर्तते । अस्य पूर्वोक्तमेव
शीलम् । कर्तृकर्मभेदाद्भेदः । निष्कारणमिति सुखं कारणान्तरं चान-
पेक्ष्य । अभियुज्य पुनर्नाभियुद्धे कारणस्यासमीहितत्वात् । इदं शुद्ध-
कामित्वं शीलम् । सिद्धायां च माध्यस्थ्यं गच्छतीत्यभियुते न च संप्र-
युज्यते । इति शुद्धकामित्वं शीलम् । सुलभामवमन्यते दुर्लभामाकान्त
इति वामशीलत्वम् । इति स्त्रीपुरुपशीलावस्थापनमेकोनचत्वारिंशं प्रकरणम् ॥
 
तत्र व्यावर्तनकारणानि–पत्यावनुरागः । अपत्यापेक्षा । अ-
तिक्रान्तवयस्त्वम् । दुःखाभिभवः । विरहानुपलम्भः । अवज्ञयोप-
मन्त्रयत इनि क्रोधः । अमतर्क्य इति संकल्पवर्जनम् । गमिष्यती-
त्यनायतिरन्यत्र प्रसक्तमतिरिति च । असंवृताकार इत्युद्वेगः । मि-
त्रेषु निसृष्टभाव इति तेप्वपेक्षा । शुष्काभियोगीयाशङ्का । तेजस्वीति
साध्वसम् । चण्डवेगः समर्थो वेति भयं मृग्याः । नागरकः कलामु
विचक्षण इति श्रीडा । सखित्वेनोपचरित इति च । अदेशकालज्ञ
इत्यम्या । परिभवस्थानमित्यवहुमानः । आकारितोऽपि नौवबुध्यत
इत्यवज्ञा । शशो मन्दवेग इति च हस्तिन्याः । मत्तोऽस्य मा भूद-
निष्टमित्यनुकम्पा । आत्मनि दोपदर्शनान्निर्वेदः । विदिता सती
स्वजनवहिष्कृता भविष्यामीति भयम् । पलित इत्यनादरः । पत्या
मॅयुक्तः परीक्षत इति विमर्शः । धर्मापेक्षा चेति ॥
 
तत्रेति स्त्रीपुरुपशीलावस्थापने यानि व्यावर्तनानि तानि व्यावर्तनकार
णानि प्रकरणान्तर इ (मि)त्युच्यते । पत्यावनुरागो व्यावृत्तिकारणं प्र-
त्यन्यायामपीप्सायाम् । अपत्यापेक्षेति स्तनंघयं ममापत्यमिति । अतिक्रा-
न्तवयस्त्वमिति परिणतवया लज्जते बलात्परपुरुषाणामार्पणेनेति । इष्टम-
रणादि दुःम्बाभिभूता जातेच्छापि व्यावर्तते । विरहानुपलम्भो भर्तुः सदा
मंनिहितत्वाद्वियोगं न पश्यति येन सँप्रयुज्यते । अवज्ञयोपमन्त्रयतेऽनाद-
१. 'त्रिय'. २. 'या'. ३. 'न बुभ्यनि', ४. 'प्रयुक्तो मा' ५. 'संप्रयु