2023-02-19 13:59:26 by ambuda-bot
This page has not been fully proofread.
१ अध्यायः]
९ पारदारिकमधिकरणम् ।
२१७
कस्याः किं शीलमित्याह-
यं कंचिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते । तथा पुरुषोsपि
योषितम् । अपेक्षया तु न प्रवर्तत इति गोणिकापुत्रः ॥
यं कंचिदिति स्वकीयं परकीयं वा पुरुषम् । उज्ज्वलं वर्णवेषाम्याम् ।
कामयते संजातरागा भवति । पुरुषोऽपि योषितमुज्ज्वलां दृष्ट्वा कामयते ।
अपेक्षया तु कस्यचित्कार्यस्य । प्रवर्तते द्वावपि संप्रयुज्येते । तदुभयोर-
प्युज्ज्वलकामित्वं कार्यापेक्षित्वं च शीलम् । गोणिकापुत्रग्रहणं प्रावीण्य -
ख्यापनार्थम् ।
तत्र स्त्रियं प्रति विशेषः ॥
तत्रेति तयोस्तुल्यशीलत्वेऽपि । विशेषः प्रत्येकं विशेष उच्यते ।
न स्त्री धर्ममधर्म चापेक्षते कामयत एव । कार्यापेक्षया तु नाभि-
युद्धे । स्वभावाच पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते ।
पुनः पुनरभियुक्ता सिद्ध्यति । पुरुषस्तु धर्मस्थितिमार्यसमयं चा-
पेक्ष्य कामयमानोऽपि व्यावर्तते । तैथाबुद्धियाभियुज्यमानोऽपि न
सिद्ध्यति । निष्कारणमभियुक्ते । अभियुज्यापि पुनर्नाभियुक्ते ।
सिद्धायां च माध्यस्थ्यं गच्छति । सुलभामवमन्यते । दुर्लभामाँका-
इत इति प्रायोवादः ॥
न स्त्रीति प्रवृत्तौ धर्मः स्यान्न वेति नापेक्षते । तमोबहुलत्वात्कामयत
एवैनम् । कार्यापेक्षया तु नाभियुत एवेति तत्रात्मनि च दोषदर्शनात् ।
इदं दृष्टदोषदर्शित्वं शीलम् । चिकीर्षन्त्यपीति तेन सह योगं कर्तुमिच्छ-
न्त्यपि व्यावर्तते नायकाभियोगात् । कारणापेक्षया यावदभियुक्तकामित्वं
कारणापेक्षित्वं च शीलम् । पुनःपुनरभियुक्ता सिद्ध्यतीति भूयोऽभियुक्त-
कामित्वं शीलम् । धर्मस्थितिमिति श्रुतिस्मृतिविहितमदृष्टार्थम् । आर्यसमयं
शिष्टाचारं दृष्टार्थम् । कामयमानोऽपीतीच्छन्नपि व्यावर्तत इति दृष्टादृष्टदो-
१. 'स्त्री नित्य'. २ 'स्त्रियः', ३. 'वा'. ४. 'परम्'. ५. 'स्त्रिया तथा'. ६. 'माध्य-
स्थ्यमपि'. ७. 'काङ्क्षतीति'.
●
का० ३३