This page has not been fully proofread.

२९६
 
कामसूत्रम् ।
 
२३ आदितोऽध्यायः]
 
आ प्राणत्यागं वर्तते । तस्यासाधारणकार्योत्पत्त्या व्यवहारार्थ दश स्था
नानि पूर्वाचार्यैरुक्तानि । तानि क्रमेणाह-
चक्षुः मी तिर्मनःसङ्गः संकल्पोत्पत्तिर्निद्राच्छेदस्तनुता विपयेभ्यो
व्यावृत्तिर्लज्जामणाश उन्मादो मूर्छा मरणमिति तेषां लिङ्गानि ॥
त्रियं दृष्टवतः संयोगेच्छालक्षणात्कामादनन्तरं दृशौ त्रिग्धे भवतः ।
ततो विपैयाप्राप्तौ मनःसङ्गस्तत्र मनसः सक्तिः । तस्मिन्सक्के संकल्पोत्पत्तिः
कथं प्राप्स्यामि प्राप्य चैवमनुष्ठातव्यमिति । ततः संकल्पयतो निद्राच्छेदः ।
ततो निद्रामलभमानस्य तनुता शरीरकार्यम् । ततो विषयेभ्यो व्यावृत्तिः ।
सर्वथा तद्भुतचित्तत्वादन्यविपयाज्वलदनलप्रख्यानोपयाति । तेभ्यश्च व्यावर्त-
मानस्य लज्जाप्रणाशनम् । गुरुभ्योऽपि निर्लज्जत्वान्न विभेति । विप्रणष्टल-
जस्य निर्भयस्य चोन्मादः प्रवर्तते । ततो मूर्छा भवत्यस्वास्थ्यसंज्ञिका ।
ततो मरणं प्राणत्यागः । तेपामिति कामस्थानानां प्रतिपत्त्यर्थमेते चक्षुःप्री-
त्यादयो लिङ्कानि । तत्कार्यत्वात् ।
 
तत्राकृतितो लक्षणतथ युवत्याः शीलं सत्यं शौचं साध्यतां च
ण्डवेगतां च लक्षयेदित्याचार्याः ॥
 
तत्रेति तस्मिन्रागवशादभिगमने शीलादिकमेव प्राधान्येन लक्षयेत् ।
आकृतित इति शरीरस्थाने । लक्षणतः शरीरस्थानचिहेन । शीलं वक्ष्य-
माणकम् । सत्यं यथार्थवादिताम् । शौचं चारित्रविशुद्धिम् ।
 
व्यभिचारादाकृतिलंक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्ति-
वोंद्धव्या योपित इति वात्स्यायनः ॥
 
सत्यप्याकृतियोगे लक्षणयोगेनावश्यं शीलसत्यशौचानि गम्यन्ते । साँ-
ध्यासाध्यतां चण्डमृदुवेगतां पुनर्गमयन्त्येव । कथं तर्हि लक्षयेदित्याह-
इगिताकाराम्यामिति । बोद्धव्या शीलादियुक्तेत्यर्थः । तत्रेङ्गिताकारी क-
न्यासंप्रयुक्तकेऽभिहितौ । प्रवर्तनं प्रवृत्तिः । इङ्गितव्यतिरेकेण तत्र त्रिभि-
देव सत्यशीलशौचानि विशेषाणि प्रवृत्त्या स्त्रीपुंसयोः ।
 

 
१. 'तास्तु चक्षुः'. २. 'तामां'. ३. 'विपये प्राप्तां'. ४. 'काराभ्यां प्रवृत्तिथ .
५. 'साध्यामाध्यमाध्यमान्यता.