This page has not been fully proofread.

१ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
पारदारिकं नाम पञ्चममधिकरणम् ।
 
२५५
 
प्रथमोऽध्यायः ।
 
कन्यापुनर्भूनायकयोः समागमोपायः सविशेष उक्तः । तत्र वेश्यायाः
काम एव परदारेभ्योऽर्थकामाविति तत्समागमोपायदर्शनार्थं वैशिकात्प्रा-
क्पारदारिकमुच्यते । तत्र स्त्रीपुंसयोः शीलमनवस्थाप्योत्तरव्यापारासंभवात्सु -
रुषशीलावस्थापनमुच्यते । परपरिगृहीतासु कामः प्रतिषिद्ध इति चेदाह---
व्याख्यातकारणाः परपेरिग्रहोपगमाः ॥
 
व्याख्यातकारणा इति परपरिग्रहगमनस्य सुखपुत्रव्यतिरेकेण कारणानि
विशुद्धपूर्वकाणि नायिकाविमर्शे व्याख्यातानीति स्मारयति ।
 
तेषु साध्यत्वमनत्ययं गेम्यत्वमायतिं वृत्तिं चादित एव परीक्षेत ।
तेष्विति परपरिग्रहेषु । सत्खपि कारणेष्विदमादित एव परीक्षेतेत्याह ।
साध्यत्वमिति साधयितुं शक्येति । अनत्ययमत्ययाभावात् । गम्यत्वं कु-
ष्ठिन्युन्मत्ताद्यभावात् । आयति प्रभावं ( ? ) तत्संयोगात् । वृत्तिमात्मनो
वृत्त्यभिधानात् ।
 
मुख ( ख्य) मपि गमनकारणं यदा शरीरोपघातं पश्येदित्याह-
यॅदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येचंदात्मश-
रीरोपघातत्राणार्थी परपरिग्रहानभ्युपगच्छेत् ॥
 
यदा त्विति कांचित्स्त्रियं दृष्ट्वा संप्रयोगेच्छालक्षणः काम उत्पन्नस्तं यदा
प्रथमात्स्थानात्स्थानान्तरमवस्थान्तरं प्रतिपद्यमानं गच्छन्तं पश्येदनुभवेन्न
च प्रतिसंव्या (स्थाप) ने निवर्तयितुमीशः स्यात् ।
तस्य कति स्थानानीत्याह-
दश तु कामस्य स्थानानि ॥
 
कामो सुन्मादात्प्रभृति विषयप्राप्तावनुकूलप्रत्ययवशात्प्रतिक्षणमुपवर्धमान
 
१. 'परिगृहीतोप'. २. 'अगम्यत्वं'. ३. 'उन्मत्तायत्यभावात्'. ४. 'भृत्यभि'.
५. 'यत्र वा'. ६. 'तत्र शरीर', ७. 'कामावस्थाः'.