This page has not been fully proofread.

२९४
 
कामसूत्रम् ।
 
उद्यानगमनेर्भोगेर्दानै स्तज्ज्ञातिपूजनैः ।
रहस्यैः प्रीतियोगैश्चेत्येकैकामनुरञ्जयेत् ॥
 
उद्यानगमनैर्या तच्छीला । भोगैर्या परिभोगलालसा । तज्ज्ञातिपूजनैर्या
ज्ञातिषु कर्तव्यबुद्धिः । रहस्यै रहसि भवैः प्रीतियोगैर्या रतिप्रिया ।
अधिकरणार्थानुष्ठाने फलमाह -
 
२२ आदितोऽध्यायः ]
 
युवतिश्च जितक्रोघा येथाशास्त्रमवर्तिनी ।
करोति वश्यं भर्तारं सपत्नीधितिष्ठति ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे
सपत्नीपु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्त-
मान्तःपुरिकं पुरुषस्य वहीपु प्रतिपत्तिद्वितीयोऽध्यायः ।
जितक्रोघेति शासानुष्ठाने कारणम् । यथाशास्त्रप्रवर्तिनीति यद्यस्याः
शास्त्रमेकचारिणीज्येष्ठादिवृत्तम् । सपत्नीरधितिष्ठतीति 'अधिशीस्थासां
इति कर्मसंज्ञा । इति पुरुषस्य बहीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाप्यायां भार्याधिकारिके चतुर्थेऽधि-
करणे सपत्नीपु ज्येष्ठारृत्तं कनिष्ठावृत्तं पुनर्भूत्रत्त दुर्भगावृत्तमान्तः पुरिक पुरु-
पस बङ्गीषु प्रतिपत्तिद्वितीयोऽध्यायः ।
 
समाप्तं चेदं भार्याधिकारिकं चतुर्थमधिकरणम् ।
 
१. 'सर्वा: समनुरप्रयेद. २. 'तया'. ३. 'इल्यपरार्जुनभुजबलमल्लराजनारायणमद्दा-
राजाधिराजचीतुक्यचूडामनिश्रीमद्वीसलदेवस भाण्डागारे श्रीवात्स्यायनीयकामसूत्र-
टीकायां-