This page has not been fully proofread.

T
 
1
 
?
 
i
 
२ अध्यायः ]
 
४ भार्याधिकारिकमधिकरणम् ।
 
२९३
 
अप्रवेश (अन्यत्र) इति । ता खुपधाशुद्धत्वान्नान्यत्प्रयोजयन्ति । अ-
परिशिष्टध कर्मयोग इति रतोपचारोऽकदर्थितः स्यात् । इत्यान्तःपुरिक-
मष्टत्रिंशं प्रकरणम् ॥
 
येथा राज्ञो बह्वचः स्त्रियस्तथा जनपदस्यापि भवन्तीति पुरुषस्य बह्वीपु
प्रतिपत्तिरुच्यते । तत्र सामान्यमाह -
भवन्ति चात्र श्लोकाः-
पुरुषस्तु वहून्दारान्समाहृत्य समो भवेत् ।
न चावज्ञां चरेदौसु व्यलीकान्न सहेत च ॥
समी भवेदिति नैकत्र खेहेन वर्तेत । न चावज्ञां चरेदिति गुणरूपरहि-
ताखपि तिरस्कारं न कुर्वीत । व्यलीकानपराधान्न सहेत । अन्यथा क्षा-
न्तेषु पुनः कुर्युः ।
 
एकस्यां या रतिक्रीडा वैर्ऋतं वा शरीरजम् ।
वित्रम्भाद्वाप्युपालम्भस्तमन्यास न कीर्तयेत् ॥
 
'युक्तं वासकशय्यया (सज्जया)' इति पाठान्तरम् । अन्यास न की-
र्तयेदिति स्त्रीणां वैराग्यहेतुत्वात् ।
 
-
 
न दद्यात्मसरं स्त्रीणां सपत्न्या: कारणे कचित् ।
तथोपालभमानां च दोषैस्तामेव योजयेत् ॥
प्रसरं न दद्यात्कलहपरिहारार्थम् । सपत्न्याः कारणे इति सापत्न्यसं-
बन्धिनि सत्यपि निमित्ते । तथा तैनेव प्रकारेण निःसर (सार ? ) तयोपा-
लममानां युक्तमेवोपेक्षितमिति । दोषैतामेव योजयेत्तवैव दोषो न तस्या इति ।
प्रत्येकं प्रतिपत्तिमाह -
 
अन्यां रहसि विस्रम्भैरन्यां सक्षपूजनैः ।
वहुमानैस्तथा चान्यामित्येवं रञ्जयेत्स्त्रियः ॥
रहसि विश्वासैर्या लज्जावती । प्रत्यक्षपूजनैर्या सपत्नीषु पङ्क्तिमिच्छति ।
बहुमानैर्या मनस्विनी ।
 
१. 'अथ'. २. 'सभवन्ति'. ३. 'आशु व्यलीकानि सहेत वा'. ४. 'विकृत'. ५. 'सा-
पत्न्यकारणे', 'सापत्नकरणे. ६. 'सापत्नकारणमिति'.