This page has not been fully proofread.

२५२
 
कामसूत्रम् ।
 
२२ आदितोऽबाध्यः]
 
तदनन्तरं पुनर्भुवस्तथैव पश्येत् ॥
 
तदनन्तरमिति परिणीतादर्शनानन्तरम् । पुनर्भुवस्तथैव पश्येदै कथ्येन
तथा स्थानमानानुवृत्तिभिश्च ।
 
ततो वेश्या आभ्यन्तरिका नाटकीयाश्च ॥
 
आभ्यन्तरिका अन्तः पुरिका । नाटकीयाश्च नाटकहिताः । तथैव
पश्येदेव ।
 
तासां यथोक्तकक्षाणि स्थानानि ॥
 
तासामिति पुनर्व्वादीनाम् । यथोक्तकक्षाणीति मध्ये देवीनां स्थानम् ।
ततो बहिःकक्षे पुनर्भुवाम् । ततो बहिर्वेश्यानाम् । ततोऽपि नाटकी-
यानामिति ।
 
वासकपाल्पस्तुं यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्प
रिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्तोभ्यां महितमैङ्गुली-
यकाकमनुलेपनमृतुं वासकं च निवेदयेयुः ।
 
[अतीतो व्यस]नोत्सवाभ्यामन्तरितः । ऋतुश्च यस्याः प्रत्युपस्थितः ।
तत्परिचारिकानुगता इति तिसृणामपि देवी (व्यादी) नां याः परिचारि-
कास्ताभिरनुगता वासकपाल्यो दिवाशयोत्थितस्य भुक्त्वा शयितोत्थितस्य
ताभ्यामिति यस्या [वासको] अतीतो यस्याश्च ऋतुः । अङ्गुलीयकाङ्कमिति
मुद्रितम् । अनुलेपनं संबन्धिनः ख्यापनार्थम् । वासकं क्रमप्राप्तमतीतं वा ।
ऋतुं त्र प्रत्युपस्थितम् ।
 
तत्र राजा यगृह्णीयाचस्या वासकमाज्ञापयेत् ॥
तत्रेति निवेदिते । यद्गृह्णीयादिति यदीयमङ्गुलीयकम् ।
उत्सवेषु च सर्वासामनुरूपेण पूजापानकं च । संगीतदर्शनेषु च ॥
अनुरूपेण पूजेति कुलवयोनुरूपा । आपानकं च ताभिः सह ।
अन्तः पुरचारिणीनां वहिरनिष्क्रमो वाह्यानां चामवेशः । अ-
न्यत्र विदितशौचाभ्यः । अपरिक्लिष्टथ कर्मयोग इत्यान्तःपुरिकम् ॥
 
१. 'च'. २. 'ताभिः'. ३. 'अनुलीयकं कुरुमानुलेपनं ऋतुवासकं च'. ४. 'आनुरु-
'५. 'अन्तरनारिणीनां बहिरनिष्काशः ६. 'वघमांय योगः'.