This page has not been fully proofread.

२ अध्यायः]
 
४ मार्याधिकारिकमधिकरणम् ।
 
२११
 
यां प्रच्छन्नां परस्त्रियं कामयेदनेन दूतीकर्मणा तां संगमयेत् । काम-
मित्येव गोपयेच्चेतरस्मै नाचक्षीत ।
 
यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविदध्या-
दिति दुर्भगावृत्तम् ॥
 
प्रतिविद्ध्याद्नुतिष्ठेत् । जाड्यदौः शील्ययोः प्रायेण दौर्भाग्यहेतुत्वात् ।
इति दुर्भगावृत्तं सप्तत्रिंशं प्रकरणम् ॥
 
यथा भार्याधिकारस्तथा भार्यायां नायकस्यापीति सप्तमीसमासोऽपि द्र-
ष्टव्यः । अन्यथा नायकेन संगताप्यनुवर्तिता न संप्रयुज्येत । तत्र नायको
द्विविधः - राजन्यको जानपदश्च । तत्र पूर्वमधिकृत्यान्तःपुरिकमुच्यते ।
अन्तः पुरे भवं वृत्तमान्तः पुरिकम् । 'रोपघेतोः प्राचाम्' इति वुञ् । ननु च
यथा राज्ञो वृत्तं तथान्तः पुरिकाणामपि वक्तव्यमित्याह-
-
 
अन्तः पुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ॥
अन्तःपुराणां चेति तत्स्थस्त्रीणामेवामिधानम् । एतेष्वेव प्रकरणेषु ल-
क्षयेत् । तत्राप्येकचारिणीज्येष्ठादयः सन्तीति पृथडोक्तम् । राज्ञस्तु पृथ-
गुच्यते ।
 
C
 
माल्यानुलेपनवासांसि चासां कश्चुकीया महत्तरिका वा राज्ञो
निवेदयेयुर्देवीभिः महितमिति । तदादाय राजा निर्माल्यमासां
मतिमाभृतकं दद्यात् । अलंकृतत्र स्खलंकृतानि चापराहे सर्वाण्यन्तः-
पुराण्यैकध्येन पश्येत् ॥
 
देवीभिः प्रहितमिति तदादायेत्याद्यनुरागख्यापनार्थम् । अलंकृतश्चेति
गृहीतनेपथ्यो राजा ऐकध्येनेत्येकधाशब्दाद्भावे ध्यमुञ् ।
 
तासां यथाकालं यथाई च स्थानमानानुवृत्तिः सपरिहासाथ
कथाः कुर्यात् ॥
 
यथाहै चेति यद्यस्याः कुलवयोपेक्षया स्थानं नियोगो मानः पूजा आ
भ्यामनुवृत्तिः कार्या । सपरिहासाः सर्वाकाराः कथाः । परिणीतास्विदं
वृत्तम् ।
 
१. 'प्रकारेषु'. २. 'राजा' इति पुस्तकान्तरे नास्ति.