This page has not been fully proofread.

२५०
 
कामसूत्रम् ।
 
२२ आदितोऽध्यायः]
 
लाविज्ञानानि पत्रच्छेद्यादिकौशलानि दर्शयेत् । वैदग्ध्यख्यापनं हि दौ-
र्भाग्यनिवृत्तिकारणम् ।
नायकापत्यानां धात्रेयिकानि कुर्यात् ॥
धात्रेयिकान्यभ्यञ्जनोद्वर्तनस्रपनादीनि ।
 
तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ॥
तन्मित्राणि चेति नायकमित्राणि । चोपगृह्य प्रियहिताभ्याम् । तैरि-
त्युपगृहीतैर्भक्तिमात्मनः श्रावयेदैशाठ्यख्यापनार्थम् ।
 
धर्मकृत्येषु च पुरचारिणी स्याद्वतोपवासयोश्च ॥
धर्मकृत्येषु श्राद्धादिपु पुरश्चारिणी प्रारम्भिका स्यात् । व्रतोपवासयोश्च
नायकेन क्रियमाणयोः पुरधारिणी ।
 
परिजने दाक्षिण्यम् । न चाधिकमात्मानं पश्येत् ॥
परिजने नायकस्य दाक्षिण्यमानुकूल्यं दर्शयितव्यम् । न चाधिकमा-
त्मानं पश्येत्सपत्नीभ्यः परिजनेभ्यश्च । दौर्भाग्यहेतुत्वादिति । वाह्यमेतद्वृ-
त्तम् । आभ्यन्तरमाह-
शेयने तत्सात्म्येनात्मनोऽनुरागमत्यानयनम् ॥
तत्सात्म्येनेति नायकानुकूल्येन । यथैव नायकोऽभियुङ्के तथैवानिच्छ-
न्त्यप्यात्मनोऽनुरागमातृप्तिं प्रत्यानयेत् ।
 
न चोपालभेत वामतां च न दर्शयेत् ॥
 
न चोपालमेतेति तवाहमप्रियेति । वामतां प्रातिकूल्यमङ्गगूहनेन न
दर्शयेत् ।
 
यया च कलहितः स्यात्कामं तामावर्तयेत् ॥
 
यया हि पल्या कलहितः स्यात्तामावर्तयेदभिमुखीकुर्यात् । काममि-
त्यभ्युपगमे । अनेनापि प्रकारेण ममाभिमुखः स्यात् ।
 
यां च मच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ॥
 
१. 'घाश्रीकमांति'. २. 'तद्भक्तिमान्मनलः'. ३. 'असाध्य'.
४. 'कार्येपु'.
५. 'जयनगत्तन्मामान्येन'. ६. 'सात्तामस्थोपावर्तयेत् . ७. 'अनेन संगमयेन्मर्माणि
साम्यावयुध्येन गोपयेथ'.