This page has not been fully proofread.

२ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
२४९
 
परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत । सपरिहासा
सविकारा । कलासु कौशलं दर्शनीयमधिकस्य नायकाविदितस्य ज्ञानं द-
र्शयितव्यम् ।
 
कळहस्थानेषु च नायकं स्वयमुपालभेत ॥
 
कलहस्थानेष्विति उपचितच्छेदः खैरिणीसंसर्गो द्विरात्रागमनं वास-
कान्निष्क्रमणं चेत्यस्याः कलहस्थानानि । तेषु खयमुपालभेत ।
 
रेंहसि च कलया चतुःपष्टयानुवर्तेत । सैपत्नीनां च स्वयग्रुप-
क्कुर्यात् । तासामपत्येष्वाभरणदानम् । तेषु स्वामिवदुपचारः । म
ण्डनकानि वेषानादरेण कुर्वीत । परिजने मित्रवर्गे चाधिकं विश्रा-
णनम् । समाजापानकोद्यानयात्राविहारशीलता चेति पुनर्भूवृत्तम् ॥
रहसि चेति नायकं शयनागतम् । कलयेत्यालिङ्गनादिभिः पुरुषोप-
सृप्तान्तैः । सपत्नीनां कुलजानाम् । उपकुर्यादुत्पन्ने प्रयोजने । आमरणं
मण्डनकादि । खामिवदुपचारस्तेषां कुलसंततिहेतुत्वात् । मण्डनकानि पु-
ष्पानुलेपनादीनि । परिजन इत्यात्मीये । विश्राणनमिति दानम् । समाजेति
गोष्ठीशीलता आपानशीलता उद्यानविहारशीलता चेति पुनर्भूवृत्तं पट्त्रिंशं
प्रकरणम् ॥
 
आसां भार्याणां दुर्भगापि काचित्संभवति तया कथं वर्तितव्यमिति
दुर्मगावृत्तमुच्यते-
दुर्भगा तु सापनकपीडिता या तासामधिकमिव पत्यावुपचरे-
तामाश्रयेत् । प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् । दौर्भाग्या-
द्रहस्यानामभावः ॥
 
दुर्भगा त्विति । सापत्नकपीडितेति दौर्भाग्यफलम् । तासामिति सप-
त्नीनां मध्ये या पत्यौ [उप] चरेत् । अधिकमिवेति नायकेनाधिकृतेन
त्वधिका सेपत्म्युपचिता तां सुतरामेवाश्रयेत् । तामाश्रित्य प्रकाश्यानि क-
या
 
१. 'सपरिहासाः सविकारा: '. २. 'खरं'. ३. 'खर' ४. 'मृदु रहति'. ५. 'खय
सपत्नीनामुपकुर्यात् । तदपत्यानि खामिवदुपचरेत् । मण्डनकान्यादरेण कुर्वीत /-
विस्रम्भणं विश्राणनं च'. ६. 'अपि'. ७. 'सापत्न्य. ८. दौर्भाग्येत्यादिटीकापाठ इति
भाति ९. 'सा पत्युप'.
 
का० ३२