This page has not been fully proofread.

१ साधारणमधिकरणम् ।
 
१५
 
सुखेनानुविद्धेत्याक्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः । तेन वियोना-
वयोनौ वानभिप्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः । आभिमानिक-
सुखाभावादप्राधान्यात् । तस्मात्स्प्रष्टव्यविशेषविषयो विशेषः कामः ।
तं काम सूत्रान्नगरिकजनसमवायाच्च प्रतिपद्येत ॥
तमित्युक्तस्वरूपं सामान्यं विशेषम् । प्रधानमप्रधानं च । कामसूत्राद-
स्मादेव, शास्त्रेऽधिकृतो यैः । इतर नागरिकसमवायात्काम व्यवहारज्ञ-
संपर्कात्प्रतिपद्येतेति ।
 
२ अध्यायः]
 
एवं धर्मादीनि युगपत्सेवितुमधिगन्तुं वा न संभवन्तीति गुरुलाघव-
मपि बुध्येतेत्याह-
-
 
ऍपां समनाये पूर्व: पूर्वो गरीयान् ॥
 
समवाये संनिपाते । तदुपायसंनिधानात् । पूर्वः पूर्व इति कामादयों
गरीयान् । कामस्यार्थसाध्यत्वात् । ततोऽपि धर्मः । अमुत्राप्यर्थस्य धर्म-
साध्यत्वात् ।
 
नायं सर्वविधिविषयक्रम इत्यत आह -
 
अर्थश्च राज्ञः । तन्मूलत्वाल्लोकयात्रायाः । बेईयायाश्चेति त्रिव-
र्गप्रतिपत्तिः ॥
 
अर्थस्तु राज्ञो गरीयान् । तन्मूलकत्वादिति । वर्णश्रमाचारलक्षणा
लोकयात्रा । सा मा मूदन्यथेति तस्याः पालनं राज्ञो धर्मः । तच्च प्रभु-
शक्तौ सत्याम् । प्रभुशक्तिश्च कोषदण्डबलम् । ते चार्थत इति तन्मूला
लोकयात्रा । वेश्यायाश्चार्थो गरीयान् । अर्थप्रतिबद्धत्वात्तज्जीविकायाः ।
वेश्या हि कामातुरब्राह्मणाभिप्रेतनागरकविषयौ धर्मकामावुपनतौ त्यक्त्वा
पश्चाद्भविष्यत इर्त्यनिष्टेऽप्ययमर्थद इति प्रवर्तते । त्रिवर्गप्रतिपत्तिरनुष्ठा-
नावबोघलक्षणोक्तेत्यर्थः ।
 
१. 'आक्षिप्त : ' पा०. २. 'नागरिकसमवायात्' पा०. ३. 'जन:' पा०. ४. 'अतिगु-
रुलाघवमपि पा०. ५. 'तेषाम्' पा०. ६. 'वेश्यायाः कामयेति' पा०. ७ 'राम इति ।
वर्णाश्रमा-' पा०. ८. 'अनिष्टोऽपि' पा०.