This page has not been fully proofread.

२४८
 
कामसूत्रम् ।
 
२२ आदितोऽध्यायः]
 
आत्मनश्चित्तानुकूल्यादिति
 
वात्स्यायनः ॥
 
आत्मनश्चित्तानुकूल्यादिति । सत्यपि गुणवति भोगिनि चित्तं चेन्ना-
नुकूलं तथापि न सुखसाकल्यं तस्मादयमपरो विशेषः । तेनोक्तलक्षणादग-
म्योऽन्यो दर्शयति ।
 
सा वान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्यय-
सहिष्णु कर्म लिप्सेत ॥
 
सेति विधवा । बान्धवैः स्वैः । नायकाद्यत्कर्मणा लब्धुमिच्छेत्तत्रापान-
कं मद्यगोष्ठी । उद्यानं पुष्पफलौपयिकम् । श्रद्धादानं यच्छ्रद्धया दीयते ।
मित्रपूजनादीत्यादिशब्दात्स्वजनं च वस्त्रादिना । एतेषु कर्तव्येषु यद्ययं
सहते कर्म । न तु प्रासाच्छादनमात्रमिति । इयमुत्तमप्रकृतेर्लिप्सा ।
आत्मनः सारेण वालंकारं तदीयमात्मीयं वा विभृयात् ॥
आत्मनः सारेण वेति मैध्यमाघमा सावधानीभूय धारयेदित्यर्थः ।
प्रीतिदायेष्वनियमः ॥
 
प्रीतिदायेष्विति प्रीत्या दत्तेष्वनियमो धारणं प्रति ।
स्वेच्छया च गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं जी-
येत । निष्कास्यमाना तु न किंचिद्दद्यात् ॥
 
खेच्छया चेति ( न तु) नायकदोपात्तेन गृहान्निर्गच्छन्तीति प्रीतिदायाद-
न्यन्नायकदत्तं लोहक्षुरं (१) जीयेत दाप्येत ।
 
सा प्रभुविष्णुरिव तस्य भवनमानुयात् ॥
सेति जिगमिपुः । प्रभविष्णुरिव स्वामिनीव नायकगृहं स्वीकुर्यात् ।
अनन्तमपि कालं निजासु किं कुर्यादित्याह-
कुलजामु तु प्रीया वर्तेत ॥
 
कुलजाखिति धर्मोढासु । प्रीत्या स्नेहेन ।
 
दाक्षिण्येन परिजने सर्वत्र संपरिहासा मित्रेषु प्रतिपत्तिः । क-
लामु कौशलमधिकस्य च ज्ञानम् ॥
 
१. 'आपानकोत्सवव्यसनोद्यान'. २. 'मध्यमाघमसाव'. ३. 'धापयेत्'. ४. 'जीर्येत'.
५. 'प्रेध्यवत् ६. 'सपरिहासं'.