This page has not been fully proofread.

२ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
यथा कन्यामार्या तथा पुनर्भूरिति पुनर्मूवृत्तमुच्यते । पुनर्मुर्द्विविधा-
क्षतयोनिरक्षतयोनिश्च । तत्रान्त्या संस्कारार्हत्वात्कन्यायामेवान्तर्भूता । य-
थोक्तम्– 'पुनरक्षतयोनित्वादूझते या यथाविधि' इति । द्वितीयाया न सं-
स्कारः । स्वीकार एव केवलम् । सा च लोकेऽपरुद्धिकेत्युच्यते । सा चै-
बंविधा शास्त्रेऽनुज्ञातैव । यथाह बसिष्ठः – 'मनोदत्ता वचोदत्ता या च
मङ्गच्छयाचिका (!)। उदकस्पर्शिका चैव या च पाणिगृहीतका । अमि
परिगता चैव पुनर्भूः प्रसवा च या ॥ इति । अत्र पूर्वाः पडक्षतयोनयः ।
प्रसवेति क्षतयोनिरित्यर्थः । तामेवाधिकृत्य वृत्तमाह -
 
विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पु-
नविन्देत्सा पुनर्भूः ॥
 
२४७
 
विघवेति मृतभर्तृका । इन्द्रियदौर्बल्यादितीन्द्रियाणि नियन्तुमसमर्थ -
त्वात् । आतुरा कामेन बाध्यमाना । भोगिनमित्युपभोगसंपन्नम् । गुणसंप-
न्नमिति नायकगुणैर्युक्तम् । या पुनर्विन्देत द्वितीयं लभेत सा पुनर्भूर्भार्या -
त्वेन पुनर्भवतीति कृत्वा । भोगिनं गुणसंपन्नमिति गोनर्दीयमतमेतद्भविष्यति ।
यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्गुणोऽयमिति तदान्यं
कावेदिति बाभ्रवीयाः ॥
 
यतस्त्विति भर्तृगृहान्तरात् । खेच्छया निष्कान्ता पुनरपि यतः पुरुषा-
त्खेच्छया निष्कमणं स्यात् । निर्गुणोऽयमिति निष्क्रमणोपायः ।
सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥
सौख्यार्थिनी विषयपरिभोगार्थिनी । किलेति वितर्के ।
 
गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति
गोनर्दीयः ॥
 
सुखसाकल्यमिति गुणसुरतपरिभोगसुखयोः समवायात् । तत्क्रिमिति
निष्कामति । यतश्चैवं तस्मात्ततो निर्गुणभोगिनो विशिष्यते गुणवान्भोगी ।
या तु पुनः पुनर्निष्कामत्यसौ वेश्याविशेषेऽन्तर्भवति ।
 
१. 'भोगिनी'. २. 'निष्क्रमणं त्यात्.