This page has not been fully proofread.

२४६
 
कामसूत्रम् ।
 
२२ आदितोऽध्यायः]
 
रहसि पतिमधिकग्रुपचरेत् ॥
 
रहसि शयने । अधिकमुपचरेद्येनायमन्याभ्यस्तस्यामनुरज्येत ।
 
आत्मनश्च सपत्नीविकारर्ज दुःखं नाचक्षीत ॥
 
सपत्नीविकारजं सपत्नीपरिभवजम् । नात्मना परस्याचक्षीत । स्वयं क
थ्यमानं नायको न प्रतीयात् । अन्येन तु कथयेत् ।
 
तु
 
पत्युश्च सविशेषकं गूढं मानं लिप्सेत् ॥
 
पत्युः सविशेषकमित्यन्यतरभार्याभ्यो वैशेषिकीं पूजां पत्युः सकाशाद-
प्रकटं लब्धुमिच्छेत् ।
 
अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ॥
 
अनेनेति सविशेषेण मानेन । पथ्यदानेन शम्बलभूतेन जीवामि ।
तत्तु श्लाघया रागेण वा वहिर्नाचक्षीत ॥
 
तन्मानम् । श्लाघया विकत्थनेन । रागेण चेति सपत्नीकोषेन । बहिः
सामान्यजनस्य नाचक्षीत ।
 
दोषमाह -
 
भिन्नरहस्या हि भर्तुरवज्ञां लभते ॥
अवज्ञा तिरस्कारः ।
 
ज्येष्ठाभयाच निगृढसंमानार्थिनी स्यादिति गोनर्दीयः ॥
अन्यथा सविशेषं मानं पश्यन्ती कुप्येदनथै वा चिन्तयेत् । गोनर्दीय-
मतमनुमतम् । अप्रतिषिद्धत्वात् ।
 
दुर्भगामनपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ॥
अनुकम्पयेत्संभाषणं क्रियतामिति । आत्मसाधुत्वख्यापनार्थम् ।
भसा त्वेनामेकचारिणीवृत्तमनुतिष्ठेदिति कनिष्ठावृत्तम् ॥
एनामिति दुर्भगामनपत्यां ज्येष्ठाम् । ज्येष्ठाकनिष्ठयोर्मध्यवर्तिनीनां पू-
र्वापरापेक्षया ज्येष्ठाकनिष्ठावृत्तं योज्यम् ॥ इति कनिष्ठावृत्तं पञ्चत्रिंशं
प्रकरणम् ॥
 
१. 'क्रमज्येष्ठा'.