This page has not been fully proofread.

=
 
i
 
२ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
नायकेन तु कलहितामेनां दौर्जन्योपन्यासेन । पक्षपातावलम्वनोपवृहि-
तामिति तद्गुणोपबृंहितां दापित प्रत्युत्तरामाश्वासयेत् ।
कलहं च वर्षयेत् ॥
 
नायकेन सह । यत्नस्य तदर्थत्वात् ।
 
२४९
 
मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ॥
छिद्यमानं तूपलभ्य कलहं संधुक्षयेद्यथा न मन्दीभवति ।
 
यदि नायकोsस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव
संघौ प्रयतेतेति ज्येष्ठावृतम् ॥
 
स्वयं वा संधौ प्रयतेत । यद्ययमेकान्तेनास्यां निरनुनयस्तदा तिष्ठत्व-
सद्विषैव मैनामवमन्यध्वमिति प्रसादयेत् । इति ज्येष्ठावृत्त चतुर्खिशं
प्रकरणम् ।
 
कनिष्ठापि भार्या कथं वर्तेतेति कनिष्ठावृत्तमुच्यते-
कनिष्ठा तु मातृवत्सपत्नीं पश्येत् ॥
मातृवन्मातरमिव ज्येष्ठाम् ।
 
-
 
ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥
अङ्गार्पणोपाय एषः ।
 
आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ॥
 
आत्मवृत्तान्तानित्यात्मनि प्रतिषिद्धत्वाद्व्यवहारान् । तदधिष्ठितान् ।
अनुज्ञाता पतिमधिशयीत ॥
 
अनुज्ञाता ज्येष्ठया धर्मप्राप्तेऽधिशयने पतिमधिशयीत ।
 
ने वा तस्या वचनमन्यस्याः कथयेत् ॥
 
तस्या वचनं ज्येष्ठावचनं सदसद्वान्यस्या अग्रे न कथयेत् । कलहपरि-
हारार्थम् ।
 
तदपत्यानि स्वेभ्योऽधिकानि पश्येत् ॥
तदपत्यानि ज्येष्ठान्यज्येष्ठानि च ।
 
१. 'खय मन्येत'. २. 'सतोषयेदिति'. ३. 'आत्मवृत्तांथ तदनधिष्टितान'. ४. 'अ-
नुज्ञाता ज्येष्टया'. ५. 'न चास्या'.