This page has not been fully proofread.

कामसूत्रम् ।
 
२२ आदितोऽध्यायः)
 
तदपत्येष्वविशेषः । परिजनवर्गेऽधिकानुकम्पा । मित्रवर्गे श्रीतिः ।
आत्मज्ञातिषु नात्यादरः । तज्ज्ञातिषु चातिसंभ्रमः ॥
 
तदपत्येष्वित्यपुत्रया सपुत्राया दर्शितव्यः । परिजनवर्ग इति सपन्याः ।
अधिकानुकम्पा यद्यसौ नायकस्याप्यनभिमतः । मित्रवर्ग इति तस्या अ-
घिको यो मित्रवर्गस्तस्मिन्प्रीतिः स्वीकारार्थम् । आत्मनो ज्ञातिपु नात्या-
दरो वैचनीयतापरिहारार्थम् ।
 
वही भिस्त्वधिविन्ना अव्यवहितया संसृज्येत ॥
बह्वीभिस्त्वधिविन्ना सपत्नीभिः । अव्यवहितयेत्यनन्तरया कनीयस्या सं-
सृज्येत विदितशीलत्वात् ।
 
२४४
 
यौं तु नायकोऽधिकां चिकीर्पेतां भूतपूर्व सुभगया प्रोत्साह्य
कलहयेत् ॥
 
यां तु तासु नायकोऽधिकां चिकीत्कर्तुमिच्छेत् । भूतपूर्वसुभगयेति
नायकस्य प्रज्ञातानुनयया । प्रोत्साह्य तामेव सौभाग्यबीजोपन्यासेन च त -
यैव कलहयेत् ।
 
ततश्चानुकम्पेत ॥
 
तत इत्युत्तरकालमनुकम्पेत कलहितां प्रच्छन्ने समाश्वासयेत्कलहवर्ध-
नार्थम् ।
 
ताभिरेकत्वेनाधिकां चिकीर्पितां स्वयमँविषदमाना दुर्जनीकुर्यात् ॥
तामिरेकत्वेनेति सपत्नीभिरन्याभिरेकत्वेनेत्यैक्येन । सहधर्मस्थितावित्यर्थः
(?) । एकाभावेऽपि सैव सौभाग्यवीजोपन्यासहेतुं नायकस्याग्रतो दुर्जनीकु-
र्यात् । येन नायकस्य तस्यामगमबुद्धिः स्यात् । दृष्टो हि बहुभिः सकल-
चाहियमाणः । तत्रापि स्वयमविवदमाना मध्यस्था सती । न तत्प्रयोग इति
ख्यापनार्थम् ।
 
नायकेन तु कलहितामेनां पेक्षपातावलम्वनोपबृंहितामाश्वासयेत् ॥
 
१. 'अधिकालो मित्र'. २. 'वचनीयतया'. ३. 'च'. ४. 'अव्यवहिताया'. ५. 'यां
तु तालु'. ६. 'ताभिर्वडीभिरेव'. ७. 'अत्रिवदमानां'. ८. 'तस्थागम'. ९. 'दीर्जन्यो-
पन्यालेन पक्षपातावलम्पनेन'.