This page has not been fully proofread.

२४२
 
कामसूत्रम् ।
 
प्रकरणद्वयोपसंहरणार्थमाह -
भवतयात्र श्लोकौ -
 
२२ आदितोऽध्यायः ]
 
सद्वृत्तमनुवर्तेत नायकस्य हितैषिणी ।
कुलयोपा पुनर्भूर्वा वेश्या वाप्येकचारिणी ॥
धर्ममर्थ तथा कामं लभन्ते स्थानमेव च ।
निःसपत्नं च भर्तारं नार्यः सद्वृत्तमाश्रिताः ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे ।
एकचारिणीवृत्तं प्रवासचर्या च प्रथमोऽध्यायः ।
सदिति न कपटेनानुवर्तनमिति दर्शनार्थम् । अस्मिन्वृत्ते नायिकात्रय-
मधिकृत्याह—कुलयोपेति । अन्यैर्वोढा (अनन्योढा) कुलयोपिदित्युच्यते ।
वृत्तानुवर्तने फलमाह – घर्ममिति । स्थानं प्रतिष्ठानम् । निःसपत्नं निष्क-
ण्टकम् ।
 
इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाद्मनाविरहकातरेण
गुरुदत्तेन्द्रपादामिधानेन यशोधरेणकत्रकृतसूत्रभाष्यार्या भार्याधिकारिके
चतुर्थेऽधिकरणे एकचारिणीवृत्त प्रवासचर्या च प्रथमोऽध्यायः ।
 
द्वितीयोऽध्यायः ।
 
सैव यदा सपत्नीभिर्युज्यते तदा कथं वर्तितव्यमिति सपत्नीपु ज्येष्ठा-
वृत्तमुच्यते । तत्र सापलककारणमाह-
जाड्यदौः शील्यदौर्भाग्येभ्यः प्रजानुत्पत्तेराभीक्ष्ण्येन दारि-
कोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम् ॥
 
जाड्यं शाट्यम् । दौःशील्यं चारित्रखण्डनात् । प्रजानुत्पत्तेर्वन्ध्य-
त्वात् । अभीक्ष्णेन दारिकोत्पत्तेः ।
 
तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्पेत् । प्र-
जानुत्पत्तौ च स्वयमेव सौपनके चोदयेत् ॥
 
तस्मादादित एवात्मनो भक्तिशीलवैदग्ध्यख्यापनेन यथाक्रमं जाख्या-
१. 'प्रकरणद्वयमुप.' २. 'सापनकं'.