This page has not been fully proofread.


 

 
A
 
i
 
i
 
४ भार्याधिकारिकमधिकरणम् ।
 
.२४१
 
नित्यं कर्माशनपानादि । नैमित्तिकं कर्म वालकोत्सवादि । उचितो व्ययो
यावता विधिः संपद्यते, नायककल्पितो वा । तदारब्धानामिति नायकार-
ब्धानां देवकुलोद्यानादिकर्मणां समापने मतिः । येन प्रकारेण निप्पद्यते
तथा कार्यमित्यर्थः ।
 
१ अध्यायः]
 
D
 
ज्ञौतिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् । तत्रापि
नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरिवर्तितप्रवासवे-
पता च ॥
 
ज्ञातिकुलस्य पितृगृहस्य । अनभिगमनं कारणं विना । तत्रापि व्यस-
नोत्सवे । नायकपरिजनाधिष्ठिताया गमनमात्मविशुद्ध्यर्थम् । नातिकालमव-
स्थानमिति नातिचिरकालमवस्थानं श्वशुरकोपभयात् । अपरिवर्तितप्रवास-
वेपता चेत्युत्सवमधिकृत्येदं वचनम् ।
 
गुरुजनानुज्ञातानां करणग्रुपवासानाम् । परिचारकैः शुचिभि-
रौज्ञाधिष्ठितैरनुमतेन ऋयविक्रयकर्मणा सारस्यपूरणं तनुकरणं च
शक्त्या व्ययानाम् ॥
 
गुरुजनानुज्ञातानां करणं खातन्त्र्यपरिहारार्थम् । क्रयविक्रयकर्मणेति
बणिज्याधर्मेण । सारस्यापूरणं द्रव्यस्याभिवर्धनम् । तनूकरणं चेति कृशी-
करणम् । शक्त्या व्ययानामिति कार्यवशायदि व्ययस्य महत्ता स्यात्तदा
कृशं सारं कुर्यादित्यर्थः ।
 
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनमुपहा-
राणां चाहरणमिति प्रवासचर्या ॥
 
आगते चेति प्रवासात्मत्यागते नायके । प्रकृतिस्थाया इति प्रवासवेष-
स्थाया एव प्रथमतो दर्शनं स्यात्स्वरूपख्यापनार्थम् । न पुनरागत इत्या-
त्मानं प्रसाधयेत् । देवतापूजनं सहपरिजनेन । उपहाराणामुपयाचितका-
नाम् । आहरणं दानं देवताभ्यः । प्रवासचर्या त्रयस्त्रिंशं प्रकरणम् ॥
 
१. 'ज्ञातिकुलागमन'. २. 'तत्रापि ' पुस्तकान्तरे नास्ति. ३. 'परिजनानुयाताया: '.
४. 'आत्मा'. ५. 'अनुमता'. ६. 'आस्थापनम् .
का० ३१