This page has not been fully proofread.

१४
 
कामसूत्रम् ।
 
२ आदितोऽध्यायः]
 
विशेषकामो द्विविघः, प्रधानमप्रधानं च । तदुमयमपि दर्शयन्नाह -
स्पर्शविशेष विषयान्त्वस्याभिमानिकमुखानुविद्धा फलवसर्थप्रती-
तिः प्राधान्यात्कामः ॥
 
तेषां
 
स्पर्शविशेषविषयात्त्विति । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि ।
वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात् । तत्र स्त्रीपुंसयोर्यदधो-
व्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेव । तस्य कश्चिदेव
प्रदेश उपस्थेन्द्रियमुच्यते । यो विसृष्टयवस्थायामानन्दकर्म जनयति ।
तस्य व्यञ्जनस्य योऽन्तर्गतः स्पर्शविशेषस्तस्मिन्विषये प्रतीतिरसावर्थप्रती-
तिस्त्वगिन्द्रियबुद्धिः । अस्याः संप्रयोगेच्छालक्षणः कामिताख्यो भावः का-
रणम् । अस्येति । ख्यात्मनः, पुरुषात्मनश्च । तत्र ख्यात्मनः पुरुषाद्वय-
जनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगिन्द्रियप्रतीतिः, पुरुषात्मनश्च स्त्री-
व्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्वगिन्द्रियप्रतीतिरित्यर्थः । विशेष-
ग्रहणात्पुरुषस्योरुकक्षादिस्पर्शनविषये स्त्रियाश्चोरुनाभ्यादिस्पर्शविषये प्रेती-
तिर्निरस्ता । तस्या अप्रधानत्वात् । एवंविधा प्रतीतिः सामान्यकाम
एव । कथं विशेषत्वमिति चेदाह — फलवतीति । तस्यां प्रतीतौ प्रबन्धेनो-
त्पद्यमानायां शुक्रक्षरणं तत्तुल्यकालमेव चानन्दाख्यं फलं सुखमित्युक्तम् ।
तेन युक्ता स्पर्शविशेषविषये प्रतीतिरपरा भवति । तस्याध पूर्विकैव
प्रतीतिरफला कारणम् । अतो विषयमेदात्वरूपभेदाच द्विघा प्रतीतिः ।
अर्थप्रतीतिरिति । अर्थग्रहणात्खनव्यञ्जनस्पर्शार्थस्यालीकत्वात्फलवत्यपि
न कामः । तस्या अप्रधानत्वात् । यद्येवं वियोनावयोनौ वानभिप्रेतेऽर्थ-
प्रतीतिरेवंविधाप्यस्तीत्यत आह – आभिमानिकसुखानुविद्धेति । आमि-
मानिक चुम्बनादिसुखं वक्ष्यति । चुम्बननखदशनच्छेयादिषु हि तत्र तत्र
स्थाने प्रयोज्यमानेषु स्त्रीपुंसो रागसंकल्पवशात्सुखमित्यभिमन्यते । तेन
 
-
 

 
१. 'विपये त्वाभिमानिक-' पा०. २. 'योन्तगतिः' पा० ३. 'स्पर्श विशेषविषये'
पा०. ४. 'उपनाभ्यादि-' पा०. ५. 'प्रीतिः' पा०. ६. 'विशेष इति' पा०. ७. 'पुरुषा-
र्थस्य' पा०. ८. 'स्थानेषु प्रयुज्यमानेषु' पा० ९. 'स्त्रीपुंसी रागसंकल्पवशात्सुखमित्य-
भिमन्येते' पा० •