This page has not been fully proofread.

२३८
 
कामसूत्रम् । २१ आदितोऽध्यायः ]
 
तु दुःखेन लभ्यन्ते । प्रच्छन्नं निधानं यत्र तानि भवन्ति, न विनश्यन्ति वा ।
मूलकालुकपालङ्की दमनकाम्रातकैर्वारुकत्र पुसवार्ताककृष्माण्डा-
लावुवरणशुकनासास्वयंगुप्तातिलपणिकाग्निमन्थलशुनपलाण्डुमभृ-
तीनां सर्वौषधीनां च वीजग्रहणं काले वापश्च ॥
 
मूलकादीनां च बीजग्रहणमिति । एर्वारुकः कर्कटिका । अलावुस्तु-
म्बी । सूरणः कन्दः । शुकनासा स... । स्वयंगुप्ता कपिकच्छ्रः ।
तिलपर्णिका काश्मरी । अग्निमन्थोऽनेनैव नाम्ना प्रथितः । पलाण्डुर्लशु-
नाकारो लोहितः ।
 
स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥
सारस्य द्रव्यस्य परेभ्यो नाख्यानं 'धनायुषी गुप्ततमे कार्ये' इति वच-
नात् । भर्तृमन्त्रितस्य च नाख्यानं मा ज्ञासीद्भिन्नरहस्येति ।
 
समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारै-
रतिशयीत ॥
 
आत्मनोऽधिकत्वख्यापनार्थम् । मानेन मनस्वितया । उपचारैर्मर्तरि
क्रियमाणैः ।
 
सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ॥
तदनुरूपमायानुरूपं कालयापनार्थम् ।
 
भोजनावशिष्टाद्गोरसान्र्तकरणम् तथा तैलगुडयोः । कर्पासस्य
च मूत्रकर्तनम् सूत्रस्य वानम् । शिक्यरज्जुपाशवल्कलसंग्रहणम् ।
कुट्टनर्कण्डनावेक्षणम् । आचाममण्डतुपकणर्कुट्यङ्गाराणामुपयोज-
नम् । भृयवेतनभरणज्ञानम् । कृषिपशुपलन चिन्तावाहन विधान-
योगाः । मेपकुक्कटलावकशुकशारिकापरभृतमयूरवानरमृगाणामवे-
क्षणम् । दैवेंसिकायव्ययपिण्डीकरणमिति च विद्यात् ॥
 
घृतकरणमिति यदादिपु ब्राह्मणान्भोजयित्वा यदवशिष्टं तस्माद्धृतकरणं
 
१. 'मानेन मनखितया तथोपचारर्मर्तरि क्रियमाणैरतिगयीत'. २. 'आत्म-
नोवाघितत्व'. ३. 'सारग्रहणम्'. ४. 'तन्त्रवानम्'. ५. 'संग्रहाः'. ६. 'खण्डन'.
'आचमातुप'. ८. 'कडङ्गरकाणां'. ९. 'पालनपोषण'. १०. 'देवसिकस्य व्ययस्य'.