This page has not been fully proofread.

7
 
i
 
f
 
}
 
१ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
स्वेददन्तपङ्कदुर्गन्धांच बुध्येतेति विरागकारणम् ॥
स्वेदादीन्बुध्येतापनयनार्थम् । दन्तपको दन्तमलः । विरागकारणमिति
वैराग्यजनकं भवेद्भर्तुः ।
 
२३७
 
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास
इत्याभिगामिको वेषः । मतनुश्लक्ष्णाल्पदुकूलता परिमितमोभरणं
सुगन्धिता नात्युल्वणमनुलेपनम् । तथा शुक्लान्यन्यानि पुष्पाणीति
वैहारिको वेषः ॥
 
नानावर्णकालवशाद्यद्यद्विराजते वर्णतस्तत्तदुपादेयमिति । आभिगामि-
को नायकाभिगमनप्रयोजनः । तदा हि बहुभूषणादिभिः कालौपयिकेन
च रक्तवाससा प्रसाधिता मनोहरेति । प्रतनु शुक्ष्णमल्पं सूक्ष्मं शोमते
वस्त्रम् । परिमितं कर्णयोग्रवायां च । नात्युद्धतं वर्णकमित्य अंशाभ्यां (१)
चेति वैहारिके । यात्राक्रीडाविहारप्रयोगाः ।
 
नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत । वारितायां
च नाहमत्र निर्वन्धनीयेति तद्वचसो निवर्तनम् ॥
 
व्रतं नियमं खयमनुकरणेनानुवर्तेत भक्तिख्यापनार्थम् । वारितायां
नायकेन व्रतोपवासाभ्याम् । नाहमत्र निर्बन्धनीया निषेधनीयेति वाक्येन
नायकवचसो निवर्तनं भक्तेर्नाट्यार्थम् ।
 
मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्पग्रहणम् ॥
मृद्धाण्डं घटादि । विदलमाण्डं पिटकादि । काठमाण्डं पीठखट्टादि ।
लोहमाण्डं ताम्रादिमयम् । काल इत्युपयोगकाले । तत्रापि समर्षे प्राप्यते ।
तथा लवणस्नेहयोथ गन्धद्रव्यकटुकभाण्डौषधानां च दुर्लभानां
भवनेषु प्रच्छन्नं निधानम् ॥
 
लवणं सैन्धवादि । नेहा घृततैलवसामज्जानः । गन्धद्रव्यं तगरादि ।
कटुकं तुम्ब्यादि । औषधं द्विपञ्चमूलादि । दुर्लमा ये न तत्रत्याः । अपि
 
x
 
१. 'इति विरागकारणम्' इति मूलपुस्तकेषु नोपलभ्यते. टीकानुरोधादत्र लिखितम्.
२. 'अम्वरेण'. ३. 'प्रसाद्याभ्या चेति प्रसाधिता'. ४. 'वर्णमिति'. ५. 'वारितायाथ'.
६. 'वचनात्तद्वचसो', ७. 'भक्तेनावार्थम्