This page has not been fully proofread.

कामसूत्रम् । २१ आदितोऽध्यायः]
पश्चात्संवेशनं पूर्वमुत्थानमनववोधनं च सुप्तस्य ॥
 
पश्चात्संवेशनं शयितस्य नायकस्य । पूर्वमुत्थानमनुत्थितान्नायकात् ।
अहनि यावन्न प्रतिबुध्येत ।
 
महानसं च सुगुतं स्यादर्शनीयं च ॥
 
महानसं सुगुप्तं स्यात् । येथान्य उपरिको न विशति । दर्शनीयं चा-
न्धकारभावात् ।
 
नायकापचारेषु किंचित्कैलुपिता नासर्य निर्वदेत् ॥
नायकापचारेप्विति नायकापराधेपु । किंचित्कलुषिता धीरोदात्तत्वख्या-
पनार्थम् । निर्वदेत् पुनर्मा कार्पोरिति । तत्रापि नात्यथै मा भूद्वैलक्ष्यमस्येति ।
साधिक्षेपवचनं खेनं मित्रजनमध्यस्थमेकाकिनं वाप्युपालभेत ।
न च मूलकारिका स्यात् ॥
 
मित्रजनमध्यस्थं यदि कार्यवशात्साधिक्षेपवचनमुपालमेत । न च मूल-
कारिका स्यात् ।
 
सेत्स्वप्यपचारेपु युक्तिमाह -
 
२३६
 
नहातोऽन्यदप्रत्ययकारणमस्तीति गोनदर्दीयः ॥
अत इति मूलकर्मणः । अप्रत्ययकारणमविश्वासकारणम् । गोनर्दीय-
मतमनुमतम् । अप्रतिषिद्धत्वात् ।
 
दुर्व्याहृतं दुर्निरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं
वा निष्कुटेषु मन्त्रणं विविक्तेपु चिरमवस्थानमिति वर्जयेत् ॥
 
दुर्व्याहृतं दुर्मन्त्रितम् । दुर्निरीक्षितमस्निग्धवीक्षणम् । अन्यतो मन्त्रणं
तिर्यङ्मुखं कृत्वा भाषणम् । एतत्रितयं वैराग्यजननम् । द्वारदेशावस्थानं
गृहद्वारस्थितिर्निरीक्षणं च तदुमयमयत्नसाध्यसूचकम् । निष्कुटेष्वितिं गृ-
हवाटिकायां निर्गत्य कयाचित्सह मन्त्रणम् । विविक्तेपु निर्जनेषु गृहप्रदे-
शेपु चिरमवस्थानमस्निग्धताजनकं भवेत् ।
 
१. 'आहारं च महानस च सुगुप्त प्रवेशसंकटं सुदर्शनीयं च . २. 'यथायथान्य'.
३. 'न किंचित्कलुपिता निर्वदेदधिक्षेपवचनं. ४. 'साधिक्षेपवचनं त्वेनं' इति पुस्तकान्तरे
नाखि ५. 'यद्यप्युपचारेपु.
 
वैरा
 
६-