This page has not been fully proofread.

१ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
२३५
 
भिक्षुकी मिक्षणशीला । श्रमणा क्षपणा प्रत्रजिता रक्तपट्टिका च ।
कुलटा प्रच्छन्नं खण्डितचारित्रा । कुहका कौतु[क]कारिका । ईक्षणिका
विप्रश्निका । मूलकारिका वशीकरणेन मूलेन या कर्म करोति तां ( तया)
च न संसृज्येत । भर्तुर्विकल्पहेतुत्वात् ।
 
भोजने च रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति
च विन्द्यात् ॥
 
भोजने चेति । भोजनकाले रुचिता [दी]नि विन्द्यात् ।
स्वरं वहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति
भवनमध्ये तिष्ठेत् ॥
 
सज्जा
 
किं कृत्यमिति । आदिश्यमानकार्यस्यानुष्ठानबुच्या । सज्जा सावधाना ।
भवनमध्येऽङ्गणके ।
 
पैरिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ॥
परिचारिकामिति । पादप्रक्षालनोद्यतामपनुद्यापास्य ।
नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥
संदर्शन इत्यग्रतो न तिष्ठेत् । कृतशरीरसंस्कारामदृष्ट्वा वैराग्यमपि स्यात् ।
अतिव्ययमसव्ययं वा कुर्वाणं रहसि वोषयेत् ॥
अतिव्ययमुचितव्ययादधिकम् । असद्ययं यदनथिंजने प्रतिपाद्यते ।
रहसि बोषयेत् । लोकमध्ये हि लज्जित एव स्यात् ।
 
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन-
मित्यनुज्ञाता कुर्यात् ॥
 
आवाहे बॅरगृहे । विवाहे कन्यागृहे । गोष्ठीं संभृय पानभोजनम् । देव-
ताभिगमनं द्रष्टुमनुज्ञाता कुर्यात् । अन्यथा खैरिणीत्याशङ्कचेत ।
सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥
 
सर्वक्रीडासु चेति यक्षराज्यादिषु लोके प्रवृत्तासु तच्चित्तानुविधानेन
प्रवृत्तिः ।
 
१. 'बहिरुपसृत्य'; 'खरमागच्छतो बहिरुपश्रुत्य. २. 'परिचारिका.'; 'परिचार-
कानू'. ३. 'भूषणा'. ४. 'आवाहविवाहयज्ञगमनं'. ५. 'वरप्रहेति'. ६. 'कन्यामहे'.
७. 'आशङ्केत'.