This page has not been fully proofread.

कामसूत्रम् ।
 
.. २१ आदितोऽध्यायः]
 
अतोऽन्यदिति अत्रोपवर्णितवेश्मनः । चित्तग्राहकं मनोहारि । गोन-
दींय इति पूजार्थम् । अधिकरणेऽधिकृतत्वात् ।
तत्र वृत्तद्वयं दर्शयन्नाह -
 
गुरुपु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाई प्रतिपत्तिः ॥
गुरुष्विति श्वशुरादिपु । नायकभगिनीषु ननान्डषु । तत्पतिषु ननान्ह -
पतिपु । यथार्ह प्रतिपत्तिरिति यथा यस्यां प्रतिपत्तिः । वाक्कायाभ्यामनु-
ष्ठानात् ।
 
पैरिपूतेषु च हरितशाकवमानिक्षुस्तम्बाञ्जीरकसर्पपाजमोदशत-
पुष्पातमालगुल्मांच कारयेत् ॥
 
परिपूतेषु चेति पवित्रेषु । हरितं धान्याकार्द्वकादि । शाकं पालङ्कयादि
च । एषां वप्रान्केदारान् । इक्षुस्तम्वानिक्षुविटपान् । जीरकादीशत पुष्पा-
पर्यन्तान्कारयेत् । तत्राजमोदोऽनेनैव नाम्ना प्रतीतः । तमालगुल्मांस्तमाल-
विटपान् ।
 
२३४
 
कुब्नकामलकमल्लिकाजातीकुरण्टकनैवमालिकातगरनन्द्यावर्तज-
पागुल्मानन्यांथ वहुपुष्पान्चालकोशीरकपातालिकांच वृक्षवाटि-
कायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥
 
तत्र कुब्जकादीनां गुल्मान् । तगरः पिण्डीतगरः । जपा ओडूपुष्पम् ।
बहुपुष्पा ये निर्भरं पुष्यन्ति । बालकोशीरयोः पातालिका केदारः । स्थ-
ण्डिलार्न्यवपदिकानि ।
 
मेध्ये कूपं वाप दीर्घिकां वा खानयेत् ॥
 
वापीं समचतुरखां पुष्करिणीम्, दीर्घिकामायतचतुरस्रां खानयेत् ।
वस्तुवशात् ।
 
भिक्षुकीश्रमणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न
 
संसृज्येत ।
 
१. 'पुरुषभृत्य.' २. 'परिपूते स्थाने'. ३. 'नवमलिका'. ४. 'वहून्पुष्पविशेपान.
५. 'उशीरकफेलिकाय'; 'उशीरकाथ.' ६. 'उच्छ्रितानि वितृणान्यकण्टकानि च स्थ-
ण्डिलानि'. ७. 'मनोज्ञानि कारयेत्' इति पुस्तकान्तरे नास्ति ८. 'अवपट्टिकानि';
'अवयवकानि'. ९. 'सामान्येषु देशेषु कूप'. १०. 'वस्तु'; 'यस्तु.'