This page has not been fully proofread.

४. भार्याधिकारिकमधिकरणम् ।
भार्याधिकारिकं नाम चतुर्थमधिकरणम् ।
 
१ अध्यायः]
 
COTHEST
 
प्रथमोऽध्यायः ।
 
कन्या पुरुषेण संप्रवृत्ता तया पुंसि कथं वर्तितव्यमित्यतो भार्याधिका-
रिकमुच्यते । तच्च कन्यासंप्रयुक्तकशेषभूतम् । अन्यथा विशेषाधिकान-
नुष्ठानात्संयुक्ताप्यसंप्रयुक्तकैन स्यात् । भार्या च द्विविधा - एकचारिणी
सैपत्निका च । तत्र प्राधान्येनैकचारिणीवृत्तमुच्यते-
भार्येकचारिणी गूँढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत ।
भार्येति । गूढविश्रम्भा । इतरस्याः कपटव्यवहारः । संभावितत्वात् ।
'भर्ता तु देवता स्त्रीणाम्' इति न्यायात् । आनुकूल्येन चित्तानुविधानेनैव ।
वर्तेतेत्यन्तर्भावितोऽर्थः । शरीरस्थितिविषयमेतत् ।
वृत्तं सूचयति-
तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ॥
 
तन्मतेनेति यदा तु नायकेनानुज्ञाता । कुटुम्बचिन्तां गृहचिन्ताम् ।
बाह्यवस्तुविषयमेतत् । आत्मनि संनिवेशयेत् आत्माधीनां कुर्यात् । यथा-
योगं योज्यम् ।
 
तत्र गृहप्रतिबद्धत्वाद्वृत्तस्य चिन्तामाह -
 
वेश्म चं शुचि सुसंमृष्टस्थानं विरचितविविधकुसुमं लक्ष्णभू-
मितलं हृद्यदर्शनं त्रिषवणाचरितवलिकर्म पूजितदेवायतनं कुर्यात् ॥
वेश्म चेति । कुर्यादित्यनेन संबन्धः । सुसंमृष्टं सुशोधितम् । स्थानेपु
विरचितानि विप्रकीर्णानि विविधानि कुसुमानि यस्य । लक्ष्णभूमितलमिति
मसृणभूतलम् । हृह्यं हृदयप्रियं दर्शनं यस्य । त्रिपवणं त्रिसंध्यमाचरितं
कारितं बलिकर्म यत्र । देवतायतनं देवगृहम् । तत्पूजितं यस्मिन् ।
न ह्यतोऽन्यद्गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ॥
 
१. 'प्रवृत्ता'. २. 'असंयुफकस्येव'. ३. 'सपत्नीका च'. ४. 'रूढविधम्भा'.
५. 'देवतावत्'. ६. 'सभावितवत्'. ७. 'तन्मतेन तु. ८. 'त्रिपवणं विरचित';
'उपवनोपरचित.'
 
का० ३०