This page has not been fully proofread.

२३२
 
कामसूत्रम् ।
 
२० आदितोऽध्यायः ]
 
स्यात् । मध्यमोऽपि हि पडित्येकस्मिन्पक्षे । सद्योग इति शोभनोऽनुरागा-
त्मको योगोऽस्येति । तेन च सद्योगेन गान्धर्व इत्युच्यते ।
एवं च कृत्वास्य प्राधान्यमित्याह -
 
मुखत्वादबहुक्लेशादपि चावरणादिह ।
अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधि-
करणे विवाहयोगाः पञ्चमोऽध्यायः ।
 
सुखत्वादिति सुखहेतुत्वात् । अवहुक्लेशात् प्रायेणेति । प्रायशो न य-
लसाध्य इत्यर्थः । अवरणात् वरणसंविधानाभावात् ॥ इति विवाहयोगा
एकत्रिंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाद्गना विरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणकत्रकृतसूत्रभाध्यायां कन्यासंप्रयुक्तके
तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः ।
 
समाप्तं चेदं कन्यासंप्रयुक्तकं तृतीयमधिकरणम् ।
 
1
 
7
 
1