2023-02-19 13:59:23 by ambuda-bot
This page has not been fully proofread.
५ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् ।
२३१
सुप्तां चैकचारिणीमिति । अङ्कसुसेति द्वितीयः । अनाग्याहरणादिकं
नास्ति अधर्मत्वादिति 1
प्रसबाहरणाद्राक्षसमधिकृत्याह-
ग्रामान्तरसुधानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो नाय-
कस्तदा रक्षिणो चित्रास्य हत्वा वा कन्यामपहरेत् । इति विवाह-
योगाः ॥
ग्रामान्तरेति । अस्माद्रामादन्यग्रामम् । सुसंभृतसहाय इति सुसंनद्धव-
हुसहायः । रक्षिणः कन्यारक्षकान् । वित्रास्य ते यथा त्यक्त्वा पलायन्ते ।
हत्वा वा प्रहारैः कन्यामपहरेत् । कृष्णबद्रुक्मिणीम् । अत्राप्यधर्मत्वान्ना-
म्न्याहरणादि । विवाहयोगा गान्धर्वादीनां विषयः ।
अष्टानां विवाहानां मध्ये किमपेक्षया कस्य प्राधान्यमित्याह-
पूर्व: पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः ।
पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥
पूर्वः पूर्व इति । धर्मसंस्थितेरिति धर्मतो व्यवस्थानादित्यर्थः । तत्र पूर्वे
धर्म्याश्चत्वारः । अस्मिन्दैर्शने गान्धर्वाह्रासादयः प्रघानम् । तत्रापि केचि-
तरतमभेदेन पूर्वः पूर्व इत्याहुः । गान्धव ह्यासुरात् पडिति । एते एक-
स्मिन्पक्षे द्वावपि धम्र्यौ । किं तु यथा पूर्वेण तथा परतः । यथा च गा-
न्धर्वो न तथासुर इति । केचित् 'आयुरोऽपि पैशाचात्तथाधर्मत्वात् । पै-
शाचोऽधर्म्येऽपि राक्षसात्प्रधानम् । राक्षसस्य साहसकर्मत्वात् । यो य
उत्तर उत्तर इति अन्यगत्या अन्यः' इत्याहुः ।
गान्धर्व एव प्रधानमित्याह -
व्यूढानां हि विवाहानामनुरागः फलं यतः ।
मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥
व्यूढानामिति कृतानामनुरागः फलम् । अन्यथानुरागाभावे निप्फलः
१. 'प्रभूतसहाय:'; 'सवृतसहाय:': 'संभृतसहाय '. २. 'योग: '. ३. 'धर्मे'. ४. 'स-
द्योगात्'.