2023-02-19 13:59:22 by ambuda-bot
This page has not been fully proofread.
२३०
कामसूत्रम् ।
२० आदितोऽध्यायः]
तदनुमतेन मातुरभिप्रायेण । अनुशयादूर्ध्वम् । प्रातिवेश्याभवने इति ।
तस्या द्रव्येणोपगृहीतत्वात् । इति द्वितीयः ।
भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तमसुक-
रेण साहाय्यदानेन प्रियोपग्रहश्च सुदीर्घकालमनुरजयेत् । अन्ते च
स्वाभिप्रायं ग्राहयेत् । प्रायेण हि युवानः समानशीलव्यसनवयसां
वयस्यानामर्थे जीवितमपि त्यजन्ति । ततस्तेनैवान्यकार्यात्तामानाय-
येत् । विपक्षं सावकाशमिति समानं पूर्वेण ॥
अस्या भ्रातरं तुल्यवयसमेकान्तप्रेसक्तमसुकरेण कष्टसाध्येन दुःसाध्य-
स्त्रीसंपादनादिना । प्रियोपग्रहैरिति सामदानैरन्यैर्वा । इत्यनुरञ्जनविधिः ।
स्वाभिप्रायमिति त्वद्भगिनीं परिणेतुमिच्छामि । अन्यकार्यादिति ल्यव्लोपे
पञ्चमी । अन्यकार्यमुद्दिश्येत्यर्थः । तत्रापि नायिकामानाययेदिति तृतीयः ।
सुप्तप्रमत्तोपगमात्पैशाचः । तमधिकृत्याह-
अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयमेनां पाययित्वा
किंचिदात्मनः कार्यमुद्दिश्य नायकस्य विषह्यं देशमानयेत् । तत्रैनां
मैदात्संज्ञामप्रतिपद्यमानां दूपरिवेति समानं पूर्वेण ॥
अष्टमीचन्द्रिकादिग्विति । अष्टमीचन्द्रिकादिपु तत्र दिवसमुपोप्य पूजा-
पुरःसरं रात्रिजागरणमा चन्द्रोदयम् । अनन्तरं तां धात्रेयिका नायकप्र-
सक्ता मदनीयं सुरादिकं पाययित्वा । किंचिदात्मनः कार्यमिति । अङ्गु -
लीयकं विस्मृत्यागतास्मि तत्र गच्छेत्युपदिश्यानयेदित्यर्थः । तत्रेति विप-
ह्यदेशे । संज्ञां चेतनाम् । दूपयित्वेति । दूषययित्वा चैनां शनैः स्वजनेषु
प्रकाशयेत् । तद्वान्धवाश्चेत्यादिपूर्ववत् । इत्येकः प्रकारः ।
मुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां
दूपयित्वेति समानं पूर्वेण ॥
१. 'ज्येष्टं वा भ्रातरं समान'. २. 'साहाय्यक'. ३. 'तदन्ते च समभिप्रायं.
४. 'अन्यकार्यापदेशेन'. ५. 'प्रयुकं. ६. 'अतिमदात्'. ७. 'अतस्त्रा'. ८. 'घात्रे-
यिकया.