This page has not been fully proofread.

F
 
१ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२२९
 
दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् । तद्वान्धवाच यथा
क्र्कुलस्याघं परिहरन्तो दण्डभयाच्च तस्मा एवैनां दद्युस्तथा योजयेत् ।
अनन्तरं च प्रीत्युपग्रहेण रागेण तद्वान्धवान्मीणयेदिति । गान्ध-
र्वेण विवाहेन वा चेष्टेत ॥
 
दूषयित्वेति अभिगम्येत्यर्थः । नोवाहितमात्राम् । शनैः खजने प्रका-
शयेत् तस्या आत्मीकरणार्थम् । यथा पितरौ तथाविधामपि प्रयच्छत इति
तदाह – तद्वान्धवा इति । नायिकावान्धवाः । नायकोपगृहीतेत्यघं दोपं
परिहरन्तो यदि तस्मै न प्रतिपाद्यते तदा कुलं दुष्यत इति । दण्डभया-
श्वेति । एवं चानुष्ठीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेदिति ।
तस्मै एव नायकायैव । अनन्तरं चेति ।
 
आन्तरस्थामधिकृत्याह-
अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलममदां पूर्वसंसृष्टां श्री-
यमाणां चोपगृह्य तया सह विषयमवकाशमेनामन्यकार्यापदेशेना-
नाययेत् । ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥
 
अप्रतिपद्यमानायामिति स्वयं पाणिग्रहणमकुर्वत्याम् । अन्तश्चारिणी-
मन्यामित्यन्तरज्ञां कुलस्त्रियम् । पूर्वसंबद्धां पित्रोः सौजन्येन प्रीयमाणां
नायकस्य । उपगृह्येति द्रव्येण स्वीकृत्य । विषद्यमिति गम्यम् । अन्यं

कार्यमपदिश्यानाययेत्प्रणिधिना । समानं पूर्वेणेति । श्रोत्रियागारादित्यादि
पूर्ववदित्यर्थः ।
 
आसन्ने च विवाहे मातरमस्यास्तदभिमतदोपैरनुशयं ग्राहयेत् ।
ततस्तदनुमतेन भातिवेश्याभवने निशि नायकमानाय्य श्रोत्रिया-
गारादग्निमिति समानं पूर्वेण ॥
 
१. 'शनैः शनै:'. २. 'कुलस्य त्याग'; 'कुलस्याङ्ग'; 'कुलस्य भङ्गं'. ३. 'प्रीत्युपप्र है-
रनुरागेण च तान्वान्धवान्'. ४. 'च चेष्टयेत्' ५. 'अ' ६. 'विपत्य सावकाशं .
७. 'आसन्ने चास्या विवाहेऽन्येन वरेण–चरदोषै ; 'अन्यवरदोष.'. ८. 'ततस्वदनु-
मतेन प्राहयित्वा प्रातिवेश्यभवन निशि नायक श्रोत्रिया'
 
·