2023-02-19 13:58:45 by ambuda-bot
This page has not been fully proofread.
२ अध्यायः ]
१ साधारणमधिकरणम् ।
व्दाद्वस्त्राभरणादयः । अर्जनं द्विविधम् । निप्पन्नानां हस्त्यादीनां स्त्रीकरणम्,
अनिप्पन्नानां धान्यादीनां निष्पादनम् । अर्जितस्येत्येकवचनमेकैकस्य द्व-
व्यस्यार्जनवर्धनयोरन्वर्थोपदर्शनार्थम् । अन्यथा समुढायस्यैवार्जनं वर्धनं
चार्थ: स्यात् । वर्धनमुपचयभोगादिव्यापारदर्शनार्थम् । तयोः नास्त्रेणोप-
दिश्यमानत्वात् ।
तमध्यक्षमचाराद्वार्तासमयविद्वयो
वणिग्भ्यश्चेति ॥
अध्यक्षाः प्रचरन्त्यनेनेत्यध्यक्षप्रचारः । वार्ता शास्त्रम् । तस्माच्छाम्चे
योऽधिकृतः । इतरश्च वार्तासमयविद्भयः कृपिपाशुपाल्यवणिज्यादितत्त्व-
विद्भ्यः । वणिग्भ्य इत्युपलक्षणार्थम् । कर्पकेभ्यो गवादिपोपकेन्यश्च प्रति-
पद्यतेत्येवम् ।
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्टितानां स्त्रेषु
स्वेषु विपयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥
-
त्वगिति कार्येन्द्रियम् । कायो द्विविधः, सामान्यो विशेषश्च । तत्र
सामान्यमाह - आत्मसंयुक्तेन मनसेति । आत्मा समवायिकारणम् । सु-
खदुःखेच्छाद्वेषप्रयत्नादिगुणानां तत्र समवायात् । तत्र यदास्य प्रयत्गुण
उत्पद्यते तदायं मनसा संयुज्यते । मन इन्द्रियेण । इत्यनेन क्रमेणाधि-
ष्ठितानाम् । स्वेषु स्वेप्विति । तथाक्रमं शब्दस्पर्शरूपरसगन्धेपु । आनु-
कूल्यत इति । यदात्मनः खप्नादीन्विपयान्भोक्तुमिच्छा भवति तदा
प्राप्याप्राप्यकारिणां श्रोत्रादीनां बुद्धीन्द्रियाणामानुलोम्येन या प्रवृत्तिः ।
इच्छोपगृहीता श्रोत्रादिबुद्धिरित्यर्थः । सा विषयोपभोगस्वभावा काम इ
त्युपचर्यते । आत्मा हि तद्द्वारेण विषयं भुजानः सुखमनुभवति यतलवं
प्रधानं कामः । तस्य निवन्धनमिच्छोपगृहीता प्रवृत्तिः । सापि काम
इत्युच्यते । तस्माद्धेतुफलभेदात्सामान्यकामो द्विविधः । प्रातिकृल्यतः
प्रवृत्तिस्तु दुःखहेतुत्वाद्वेषै इत्यर्थोक्तम् ।
१. 'भूम्यादिव्यापार -' पा०. २. 'श्रोत्रेन्द्रियादीनाम्' पा०. ३. 'हे' पा०.