2023-02-19 13:59:22 by ambuda-bot
This page has not been fully proofread.
२२८
कामसूत्रम् । २० आदितोऽध्यायः ]
पयत इति । नानुरूपोऽयं ममेति । स्वदुच्यावंधारणं, न पित्रोरिच्छया ।
तथा कर्तव्ये शकुन्तलादिकृताः कथाः कथयेत् । कौशिकः स्वतपोविघ्ना-
र्थमिन्द्रसंप्रेषितामप्सरसं मेनकां दृष्ट्वा जातरागश्चकमे । सा च तद्वीर्यग्रह-
णातत्रैव कन्यां प्रसूय त्यक्त्वा चारण्ये दिवं जगाम । शकुन्तसंपातमध्य-
गतां च तां कन्यां कण्वर्पिः करुणयाश्रममानीय वर्धितवान् । यथार्थं च
शकुन्तलेति नाम चक्रे । सा च कालेन प्राप्तयौवना मृगयाप्रसङ्कादागतं
दुष्यन्तं राजानं दृष्ट्वा खबुद्ध्या पाणि ग्राहितवतीति । आदिशब्दाद्राजदा-
रिकाः कन्या निदर्शयेत् । महाकुलेप्विति । महाकुलेषु च लोमात्सित्रा
दत्ता नियतं सापत्लकैर्वाध्यन्ते । ततश्च विद्विष्टाः परिजनस्य परित्यक्ताः
सत्यो दुःखिता दृश्यन्त इति दर्शयेत् । आयतिमुत्तरभाविनमर्थम् । भवि-
व्यति चेति । एकचारितायामिति एकपत्नीत्वे सुखमनुपहतं वर्णयेत् ।
सापत्न्यदुःखाभावात् । नायकानुरागं चेति । समनोरथाया इति । अस्त्ये-
वायमस्या मनोरथः किं तु दोषान्पश्यतीत्युत्प्रेक्ष्याह - अपायमिति । विनाशं
कुतश्चित् । साध्वसं भयं गुरुजनात्, ब्रीडां परिजनेषु हेतुभिरुपायैदर्शनै-
रपनयेत् । दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणकरणम् । त्वाम-
जानतीमिवेति । जानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः ।
तथेति तेन प्रकारेण सुगृहीतं स्यात् ।
प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमो-
नाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् । ततो
मातरि पितरि च प्रकाशयेत् । अग्निसाक्षिका हि विवाहा न नि-
वर्तन्त इत्याचार्यसमयः ॥
प्रतिपन्नामिति । अभ्युपगतामेकान्तदेशवर्तिनीम् । श्रोत्रियेति । तत्राग्नेः
संस्कृतत्वादित्यर्थः । यथास्मृति स्वगृह्योक्तविधिना । त्रिः परिक्रमेत् अमिं
भ्रमयेत् । प्रकाशयेत् प्रणिधिना यथा नायकेनोद्वेति । न निवर्तन्त इति
नान्येनोद्यते इति दर्शयति । धर्मविवाहे वझिसंनिधानं कार्यमिति ।
१. 'वरण'. २. 'कौशिकम्य तपो'. ३. 'भ्रमं'. ४. 'प्रतारणप्रकरणम्'; 'प्रतार-
प्रकारणम्' ५. 'आनीय'. ६. 'परिणयेत्'. ७. 'अतिवर्तन्ते'.
.