This page has not been fully proofread.

१ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२२७
 
दिभिरिति विवाहयोगा उच्यन्ते । तत्र गान्धर्वेण प्रायशो दृश्यन्ते ।
तस्यास्तावत्सहायसाध्यविधिमाह -
 
प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां मियहि-
ताभ्यामुपगृह्योपसर्पेत् ॥
 
प्राचुर्येणेति । घात्रेयिकां पुरुषप्रवृत्तामित्यर्थात् । उपगृह्य प्रियहिताभ्या-
मुपसर्पेत् तस्याः समीपे निसृष्टार्था प्रेषयेत् ।
 
सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत् ।
तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठपवर्णयेत् । अन्येषां वरपितॄणां
दोषानभिप्रायविरुद्धान्प्रतिपादयेत् । मातापित्रोच गुणानभिज्ञतां
लुब्धतां च चपलतां च वान्धवानाम् । याश्चान्या अपि समान-
जातीयाः कन्याः शकुन्तलाद्याः खैबुद्ध्या भर्तारं प्राप्य संमयुक्ता
मोदन्ते स्म तावास्या निदर्शयेत् । महाकुलेषु सापत्नकैर्वाध्यमाना
विद्विष्टा दुःखिताः परित्यक्ताश्च दृश्यन्ते । आयतिं चास्य वर्णयेत् ।
सुखमनुपहतमेकँचारितायां नायिकानुरागं च वर्णयेत् । समनोर-
थायावास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् । दूती-
कल्पं च सकलमाचरेत् । त्वामजानतीमिर्व नायको वलाद्रहीप्य-
तीति तथा सुपरिगृहीतं स्यादिति योजयेत् ॥
 
सा चेति । सा उपसर्पिता नायकस्याविदितेव भूत्वा कृतकप्रयोगप
रिहारार्थम् । तस्य नायकस्य गुणैः । तस्याश्चेति । अभिप्रायविरुद्धानिति
यथा नेच्छति तानियं तथेत्यर्थः । गुणानभिज्ञतां लुब्धतां चेति । अगु-
णज्ञौ तव पितरौ लुब्धौ च येन गुणवन्तमपहायान्यं घनिनं निर्गुणं गवे-
१. 'प्रियहिताभ्या' इति पुस्तकान्तरे नास्ति २. 'परिवर्णयेत्'. ३. 'अन्यवर
यितॄणा'. ४. 'गुणानपेक्षिता'. ५. 'खबुद्धया भर्तार'; 'खबुद्धया रुच्य भर्तार प्राप्य
सयुक्ताः सुरतं मोदन्ते स्म'. ६. 'दर्शयेत्'. ७. 'एकचारितां नायकानुरागं कन्याविषयं
वर्णयेत् मनोरथांश्च'; 'एकचारिता च वश्यतां नायकानुराग च मनोरथाथ वर्णयेत्.
८. 'अपायसाध्वस'. ९ 'नाम' इति पुस्तकान्तरे. १०. 'इति' इति पुस्तकान्तरे
नास्ति. ११. 'यथेच्छितानि तथेत्यर्थ .