This page has not been fully proofread.

२२६
 
कामसूत्रम् ।
 
नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा ।
विदेशगतिशीलच न स संयोगमर्हति ॥
 
नीचोऽधैमजातिः पूर्वगुणयुक्तोऽपि । पलितो वृद्धः । सदा प्रवासी ।
यदृच्छयोभियुक्तो यो दम्भद्यूताधिकोऽपि वा ।
सपत्नीकच सापत्यो न स संयोगमर्हति ॥
 
२० आदितोऽध्यायः ]
 
यदृच्छयेति । स्वेच्छाभियोगशीलः । बलात्कारेणेति भावः । व्याजव-
हुलो दम्भद्यूतासक्तश्च । सपत्नीकः सापत्यश्च परिणीतभार्यायुक्तस्तदपत्य-
वांश्च । एकतरवान्वा ।
 
वश्यस्तु तादृशोऽपि संयोगमर्हत्येवेत्याह-
गुणसाम्येऽभियोक्तृणामेको वरयिता वरः ।
तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे
एकपुरुपाभियोगा अभियोगतञ्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ।
 
गुणेति । यथोक्तगुणानां साम्ये । एको वर इति त्रियन्त इति वराः
सर्व एवाभियोक्तारः । तेषां वर एको वरयिता वरणे साधुः । 'वर ईप्सा-
याम्' । साधुकारिणि तस्मिन्नभियोक्तरि तत्त्वाविशेपे श्रैष्ठचं श्रेष्ठता ।
तस्यानुरागात्मकत्वात् । इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाङ्गनाबिरहकातरेण
गुरुदत्तेन्द्रपादाभिवानेन यशोधरेणैकत्रकृतसूत्रमाव्याया कन्यासप्रयुक्त के
तृतीयेऽधिकरणे एकपुरुपाभियोगा अभियोगतच कन्यायाः
प्रतिपत्तिचतुर्थोऽध्यायः ।
 
पञ्चमोऽध्यायः ।
 
एैवमनुरजितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेत् । विपरीतामासुरा-
१. 'अधर्मजाति: '. २. 'अभियु. ३. 'एवमनुरञ्जिताया स्वयंवरप्रयुक्तां च'.