This page has not been fully proofread.

४ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२२५
 
कन्येति । आश्रयमिति आश्रीयत इति कृत्वा । सुखमिति बाह्यस्योप-
भोगसुखस्य आन्तरस्य चरमसुखस्य हेतुत्वात् । अनुकूलं तच्चित्तानुविधा-
यिनं वश्यं यथोक्तकारिणं मन्येत ततस्तस्य प्रतिग्रहं कुर्यात् । सोपि तथै-
वाचरेदित्यर्थः ।
 
अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च ।
कुर्वीत धनलोभेन पतिं सापत्रकेष्वपि ॥
तत्र युक्तगुणं वश्यं शक्तं वलवदर्शिनम् ।
उपायैरैभियुञ्जानं कन्या न प्रतिलोभयेत् ॥
अनपेक्ष्येति । यस्मिन्खयंवरे गुणाननपेक्ष्य तदभावात् धनवानेव केव-
लम् । सापत्नकेष्वपि । न केवलमसापत्नकेषु । प्रायेण धनिनां बहुदार-
त्वात् । तत्र स्वयं युक्तगुणं संगुणं शक्तं समर्थ बलवदर्शिनमेकान्ततो-
ऽथिनं न प्रतिलोमयेत् अपाकुर्यात् ।
 
यस्तु धनवान्बहुपत्नीको गुणवानपि न तमभियुञ्जानं प्रतिलोभयेदिति
दर्शयन्नाह -
 
वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्योत्मधारणः ।
गुणैर्युक्तोऽपि नै त्वेवं बहुसाधारणः पतिः ॥
 
वरमिति । आत्मघारणः कुटुम्बमात्रधारकः बहुसाधारणो बहूनामेकः ।
यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः सन् प्रतिलोमयेदित्यर्थः ।
यस्तु न वश्यस्तत्र दोषमाह -
 
प्रायेण धनिनां दारा वहवो निरवग्रहाः ।
वा सत्युपभोगेऽपि निर्विसम्भा वहिःसुखाः ॥
प्रायेणेति । अत एव धनवान्बहून्दारान्प्रतिगृह्णाति । विशेषतत्ताश्च
निरवग्रहा निरङ्कुशाः । तत्र कारणम् – बास इति । आसनायुपभोगेन
बहिःसुखाः । निर्विखम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥
 
१. 'आधियते'. २. 'सोऽपि'. ३. 'अभियुजीत'. ४. 'खल्पगुण'. ५. 'आत्मवान्नर..
६. 'वा नैव' ७. 'धनवान्गुणवान्'.
 
का० २९