This page has not been fully proofread.

४ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२२३
 
यं वेति । असमीक्षयेति मातापितृभ्यां मम मार्गयित्वा । इन्द्रियाणि
नियन्तुमसमर्थत्वात् यमेवं मन्येत तमपि योजयेदिति संवन्धः । प्रियहि-
तेति प्रियोपचारा एतदर्थं सुखं कुर्वन्ति । आवर्जनमभिमुखीकरणम् ।
 
माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यात् ॥
माता चैनामिति । सा न जीवति चेत्कृतकमाता वा । सखीभिः सह
लज्जापगमार्थम् । उपचारैर्बाधौराभ्यन्तरैश्चेति शेषः ।
 
तत्र पूर्वमधिकृत्याह-
पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम् ।
कलाकौशलप्रकाशने वा संवाहने शिरेसः पीडने चौचित्यदर्शनम् ।
प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्त-
माचरेत् ॥
 
पुप्पेति । तदुपस्थानं नायकसमीपगमनम् । कौशलप्रकाशनार्थम् ।
औचित्यदर्शनमिति । सहसा न प्रतिजानीयात् । अनुवन्ध्यमानमनुकुर्यादि-
त्यर्थः । प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः । बालायां ये नाय-
कस्योपक्रमा उक्तास्तेषु यैथोक्तं समाचरेत् ।
 
न चैवान्तरापि पुरुष स्वयमभियुञ्जीत । स्वयमभियोगिनीदि
युवतिः सौभाग्यं जहातीत्याचार्याः ॥
 
अन्तरापीति । कामपरवशापि न स्वयमभियुञ्जीत । आचार्यग्रहणं
पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् । स चेदमियुज्जीत प्रतिगृह्णीयात् ।
 
तत्मयुक्तानां खभियोगानामानुलोम्येन ग्रहणम् । परिष्वक्ता
च न विकृतिं भजेत् । लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ।
वदनग्रहणे बलात्कारः । रैतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद्भुय-
संस्पर्शनम् ॥
 
१. 'तदुपस्थानम्'. २. 'शिरसः
 
कण्डूयने पीडने च'. ३. 'यथा चोक्तम्'. ४. 'न
त्वेवानुरागादपि'; 'न त्वेवान्तरापि. ५. 'सद्यः सीभाग्य'. ६. 'रतिभावनायानन्य-
र्थनास च'. ७. 'संदर्शनम्'.