2023-02-19 13:59:21 by ambuda-bot
This page has not been fully proofread.
२२२
कामसूत्रम् ।
१९ आदितोऽध्यायः ]
तमानसा वा, किं त्वितरेति । उपक्रमेत गान्धर्वेण विधिनेत्यर्थ: । दृष्ट-
भावा उपलब्धभावाः । दृष्टोऽभिप्रेते काले यज्ञादिकाले प्रदोषादौ चे-
ति ॥ इत्येक पुरुषाभियोगा अष्टविंशं प्रकरणम् ॥
यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरञ्जयेत् तत्र क-
न्यापि तथाविधा कैश्चिददास्यमाना स्वयमुपावर्तेत । तत्प्रयोज्यस्योपाव-
र्तनमाह । उपावर्तनमभिमुखीकरणम् ।
कथं न ब्रियत इत्याह-
मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनांपि समानैरं-
याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना
पाणिग्रहणं स्वयमभीप्सेत ॥
मन्देति । मन्दापदेशा हीनाभिजना । गुणवत्यपि सा तैरदास्यमाना
वा । धनहीना वा कुलीनापि । समानैस्तुल्याभिजनैर्घनिमिः । मातृपितृ-
वियुक्ता वा अनाथत्वादयाच्यमाना । प्राप्तयौवनेति प्रत्येकं योज्यम् ।
स्वयमीप्सेत । तदानीं स्वयंवरस्याभ्यनुज्ञानात् । यथोक्तम् –'त्रीणि
वर्षाण्युपासीत कुमर्यनुमता सती । ऊर्ध्वे तु कालादेतस्माद्विन्देत सदृशं
पतिम् ॥ इति ।
सदृशप्रतिपत्तावुपायमाह -
सा तु गुणवन्तं शक्तं सुदर्शनं वालमीसाभियोजयेत् ॥
सा त्विति । गुणवन्तं नायकगुणयुक्तम् । शक्तं युद्धादिपु । सुदर्शनं
रूपवन्तम् । वालेति । वाल्ये क्रीडायां या प्रीतिस्तया योज्यकर्ज्या
स तथामियुञ्जानः सिद्धयतीत्यर्थः ।
w
गुणान्तरमाह-
यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्व-
ल्यान्मयि प्रवर्तिप्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च
तमावर्जयेत् ॥
१. 'वा'. २. 'अदास्यमाना'. ३. 'अभ्यनुज्ञातत्वात् ४. 'प्रयोज्यया कर्ज्या'.