This page has not been fully proofread.

२२०
 
कामसूत्रम् ।
 
१९ आदितोऽध्यायः]
 
इदं त्वया कर्तव्यम् । नहोतहते कन्याया अन्येन कार्यमिति ग
च्छन्तीं पुनरागमनांनुवन्धमेनां विसृजेत् ॥
 
त्वयैवेति त्वया साधितं सिद्धिदं भवतीति । अनुबन्धं पुनरागन्तव्य-
मित्येवंरूपम् ।
 
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥
 
अस्येति कैन्यासाध्यस्य । त्रिरात्रं त्रिसंध्यं प्रयुक्तिः प्रयोगः ।
एतन्निर्देशे फलमाह -
अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥
 
अभीक्ष्णेति । गोष्ठीमिति कलानामाख्यायिकानां वा । येन तदासक्ता
चिरं तिष्ठेदित्यर्थः ।
 
अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुञ्जीत । नतु
वाचा निर्वदेत् ॥
 
अन्याभिरिति । तामिविश्वासनं कार्यमिति हेतोरिति भावः । न त्विति ।
तत्र दोषमाह -
 
दूरगतभावोऽपि हि कन्यासु न निर्वेदन सिद्ध्यतीति घोटक-
मुखः ॥
 
दूरेति । अत्यर्थजातविसम्भोऽपि न सिद्ध्यति । वहुशोऽभियोगापेक्षणी-
यत्वात्कन्यानाम् । घोटकमुखग्रहणं पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् ।
यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत् ॥
 
यदा त्विति । बहुसिद्धां बहुभिरभियोगैः कार्योन्मुखीमुपक्रमेत ।
 
तत्र कालमाह-
प्रदोषे निशि तमसि च योपितो मन्दसाध्वसाः मुरतव्यवसा-
Repletando de
 

 
१. 'अनुबन्धे'. २. 'एवं ब्रूयात्'. ३. 'त्रिपवण च प्रयुक्तिरिति निर्दिशेत्.
४. 'कन्यासाच्यं.' ५. 'अभीक्ष्णं दर्शनार्थमागतायाच गोष्टया प्रवर्धयेत्'. ६. 'निर्वादः .
 
4
 
1
 
}
 
$