This page has not been fully proofread.


 
1 इन्,
 
में एन
 
रं जपते
 
21
 

 

 

 
४ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम्
 

 
२१९
 
द्वन्द्वमिति साहचर्येणासीनः । शान्ति कुर्वीतेति नखस्पर्शादिना । त
त्काले लज्जाभावात्कन्यायाः । समानदेशशय्यायां च क्षान्ति कुर्वीत ।
तत्र यथार्थमनुद्देजयतो भावनिवेदनम् ॥
 
तत्रेति आसने शयने च । यथार्थ भावनिवेदनमाकारेण । न वाचा ।
प्रत्याख्यानभयात् । अनुद्वेजयत इति यथा नोद्विजते ।
 
यदा वाचा तदा विधिमाह -
 
पंचिति
 
हमे
 
विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं भावं
च तत्रोपलक्षयेत् । यथा पारदारिके वक्ष्यामः ॥
 
विदितेति । व्याधिमपदिश्येति कृतकं शिरःशूलादिकमपदिश्य । ख-
1 मुदवसितं स्वगृहम् । आनयेत् विश्वास्यया प्रणिहितया ।
 
विविक्ते चेति । 'किंचिदस्ति कैथयितव्यम्' इत्येतावद्वक्तव्यम् । 'कि
तत्' इति तयोच्यमाने निर्वचनं ब्रूयादित्यर्थः । तंत्रेति वचनोपन्यासे ।
भाव संप्रयोगामिलार्मेस्या लक्षयेत् । कथमित्याह - येथेति । तत्र प्रवृत्त्या
भावपरीक्षां वक्ष्यति । इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदनमिति ।
विदितभावस्याभ्यन्तरमभियोगमाह -
 
विदितभावस्तु व्याधिमपदिश्यैनां वार्ताग्रहणार्थ स्वमुदवसित -
मानयेत् ॥
 
आगतायाथ शिरःपीडने नियोगः । पाणिमवलम्ब्य चास्याः
साकारं नयनयोर्ललाटे च निदध्यात् ॥
 
शिरःपीडन इति शिरो मे दुःखयति पीडय हस्तेनेति नियोगः ।
औषधापदेशार्थ चास्याः कर्म विनिर्दिशेत् ॥
औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति ।
 
१. 'वक्तव्यम्'. २. 'उच्यमानम्'. ३. 'ततो वागुपन्यासानन्तरम्'. ४. 'अस्या
लक्षयेत्' इति पुस्तकान्तरे नास्ति ५. 'यथा पारदारिकमिति'. ६. 'विजित', ७, 'भा-
चग्रहणायें'. ८. 'व्याधिं शिरःशूलादिक कृतकमुक्त्वा'. ९. 'आगताया च शिरःपीडन-
नियोगः'; 'आगतायाश्च त्वशिरः पीडने'. १०. 'हस्तेनेति साकारं निदध्यात्. ११. 'कर्माणि'.