2023-02-19 13:58:44 by ambuda-bot
This page has not been fully proofread.
१२
२ आदितोऽध्यायः ]
खरूपं यतश्च परिज्ञातं तदुभयमप्याह-अलौकिकत्वादित्यादिना ।
अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्मवर्तनम्,
लौकिकत्वादृष्टार्यत्वाच प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव
निवारणं धर्मः ॥
तत्र लोके रू॒पादिवदविदितस्वरूपत्वादलौकिका यज्ञादयः । ननु वि-
शिष्टद्रव्यगुणकर्मात्मकत्वाद्विदितस्वरूपाः कथमलौकिका इत्यत आह -
अदृष्टार्थत्वादिति । तेषामनन्तरं फलस्यादर्शनात् । येऽदृष्टफलाः सन्तो-
sलौकिका न ते प्रेक्षावद्भिरदृष्टसामर्थ्योपधिवत्प्रवर्त्यन्त इत्यप्रवृत्ताः । आ-
दिशब्दात्तपश्चरणादयः । तेषामप्रवृत्तानां शास्त्रात्मवर्तनं धर्म इति । अयं
प्रवृत्तिरूपो धर्मः । लौकिकत्वादृष्टार्थत्वादिति । ये दृष्टतृप्त्यादिफलाः
सन्तो लौकिकास्ते तदर्थिभिर्मृगादिमांसभक्षणवत्प्रवर्त्यन्ते । तस्मात्प्रवृत्ते-
भ्यश्च मांसभक्षणादिभ्यः । आदिशब्दात्सत्त्वाभिद्रोहपरस्वादाना-
दिभ्यः । शास्त्रादेव निवारणं प्रतिषेधनमिति । अयं निवृत्तिरूपः ।
कथमत्र शास्त्रं प्रमाणमिति चेदुत्तरत्र वक्ष्यति ।
तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥
तमित्युक्तस्वरूपं धर्मम् । श्रुतरिति स्मृत्यनुगताद्वेदात, योऽधिकृतः
शास्त्रे । अनधिकृतो वा धर्मज्ञसमवायात् । श्रुतिस्मृत्यर्थतत्त्वज्ञसंसर्गादित्यर्थः ।
प्रतिपद्येतावबुध्येत ।
विद्याभूमिहिरण्यपशुधन्यभाण्डोपस्करमित्रादीनामर्जनमँजितस्य
विवर्धनमर्थः ॥
विद्या आन्वीक्षिक्यादयः । भूमि: कृष्टा, कृष्या वा । हिरण्यं सुव-
र्णादि । पशुर्हस्त्यश्वादिः । धान्यं पूर्वमध्यावरवापः । भाण्डोपस्करं गृहो -
पकरणं लोहकाष्ठमृद्विदलचर्ममयम् । मित्रं सहपांशुक्रीडितादि । आदिश-
कामसूत्रम् ।
१. 'स्वरूपज्ञानं तत्स्वरूपम्' पा०. २. 'यज्ञादीनाम् इति पुस्तकान्तरे नास्ति.
३. 'च' इति पुस्तकान्तरे नास्ति. ४. 'खरूपा-' पा०. ५. 'प्रवृत्ताः' पा०. ६. 'धान्य'
इति पुस्तकान्तरे नास्ति. ७ 'अजिंतस्य रक्षणं रक्षितस्य विवर्धनम्' पा० . ८. 'कृष्टा-
कृष्टा वा': 'कृष्याकृष्या वा' पा०.