This page has not been fully proofread.

४ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२१७
 
स्पृष्टकादिकमिति स्पृष्टकं विद्धकमुद्धृष्टकं पीडितकमिति चतुष्टयमव-
सरप्राप्तत्वाद्यथायोग्यं विदध्यात् ।
 
पत्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्शयेत् ॥
पत्रेति । स्वाभिप्रायसूचकं संप्रयोगसूचकं हंसादिमिथुनम् ।
ऐवमन्यद्विरलशो दर्शयेत् ॥
 
एवमिति । अन्यदपि यन्मिथुनं भवति तिलकादिकं साकारम् । वि
रलश इति । सततदर्शने हि ग्राम्यता संभाव्यते कौतुकं चापैति ।
 
जलक्रीडायां तेंडूरतोऽप्यु निमन: समीपमस्या गत्वा स्पृष्ट्वा
चैनां तत्रैवोन्मज्जेत् ॥
 
जलेति । स्पृष्ट्वा चैनामिति निमग्न एव । तत्रैवोन्मज्जेत् नायिकासमीपे
नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥
 
नवपत्रिकादिषु चेति देश्यक्रीडासु । सविशेषमावनिवेदनमिति पूर्वो-
केनैव स्वाभिप्रायसूचकेन पत्रच्छेद्यादिना ।
 
आत्मदुःखस्यानिर्वेदेन कथनम् ॥
 
आत्मदुःखस्य च कथनम् 'न जाने कि कृता मम चेतसि पीडा' इति ।
तत्राप्यनिर्वेदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् ।
 
स्वमस्य च भावयुक्तस्यान्यापदेशेन ॥
 
अन्यापदेशेनेति । त्वत्तुल्यरूपया सहोपगमः खप्ने ममाभूदिति कथनम् ।
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनम् । तत्रान्यापदिष्टं
स्पर्शनम् ॥
 
स्वजनसमाजः खजनगोष्ठी । समीपोपवेशनमिति नायिकायाः । त
त्रेति समीपे प्रेक्षणकादिषु अन्यापदिष्टमन्यदँपदिश्य स्पर्शनम् ।
अपाश्रयायें च चरणेन चरणस्य पीडनम् ॥
 
१. ' प्रदर्शयेत्'. २. 'अन्यदन्यत्'. ३. 'सभवात्कौतुकाभावाच'. ४. 'च दूरत.';
'दूरतः'. ५. 'तत्तुल्य'. ६. 'खजनसमवायें', 'खजनसंवाधे'. ७. 'उद्दिश्य'. ८. 'अ
पाश्रयणार्धम्'.
 

 
का० २८